________________
सर्वसिद्धान्तप्रवेशकः
[नैयायिकदर्शनम्] तत्र नैयायिकदर्शने तावत् “प्रमाण-प्रमेय-संशय-प्रयोजनदृष्टान्त-सिद्धान्त-ऽवयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभासच्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः" [न्यायसूत्र १।१।१] ।
अस्य व्याख्या-प्रणीयतेऽनेनेति प्रमाणम् । तस्य च सामान्यलक्षणम्-अर्थोपलब्धिहेतुः प्रमाणम् । उपलब्धिश्च हानादिबुद्धिः । तच्चतुर्धा, तद्यथा-"प्रत्यक्ष-ऽनुमानो-पमान-शब्दाः प्रमाणानि" [न्या० सू० १।१।३] । तत्र प्रत्यक्षम्-इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्" [न्या० सू० १।१।४।] । अस्य गमनिका-इन्द्रियाणि घ्राणादीनि, अर्था घटादयो गन्धादयश्च, तेषां सन्निकर्षः सम्बन्धः, तस्मात् सन्निकर्षादुत्पन्नम्, नाऽभिव्यक्तम्, ततश्च साङ्ख्यमतव्यवच्छेदः । ज्ञानग्रहणात् सुखादिव्यवच्छेदः । तच्च शब्देन व्यपदिश्यमानं शाब्दं प्रसज्यते, तेनोच्यते-अव्यपदेश्यमिति । तथा तदेव ज्ञानं व्यभिचार्यपि भवति, तेनेह 'अव्यभिचारि' इति । 'व्यवसायात्मकम्' निश्चयस्वभावम्, ततश्च संशयज्ञानव्यवच्छेदः । 'प्रत्यक्षम्' इति लक्ष्यनिर्देशः ।।
अनुमानम्-"तत्पूर्वकं त्रिविधमनुमानम्-पूर्ववत्, शेषवत्,
१. तत्त्वपरिज्ञानाद् A ॥ २. "प्रमीयतेऽनेनेति प्रमाणम्"-न्यायकलिका० पृ० १ ॥ ३. च B मध्ये नास्ति ॥ ४. "उपलब्धिहेतुश्च प्रमाणम् ।" - न्यायभाष्य २।१।१। न्यायवार्तिक० पृ० १५ । “अर्थोपलब्धिहेतुः स्यात् प्रमाणं तच्चतुर्विधम् ।" -षड्दर्शनसमुच्चय ।।१६।। "अर्थोपलब्धिहेतुः प्रमाणम्' इति नैयायिकादयः'–न्यायावतारवृत्ति० पृ० ९। प्रमाणमीमांसा १।१।८।। ५. 'श्चेह बुद्धि तच्चतुर्धा तद्यथा B । श्च हानादिबुद्धिः तद्यथा A ॥ ६. "प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा ।"-न्यायभाष्य० ॥ ७. "गन्ध-रस-रूप-स्पर्श-शब्दाः पृथिव्यादिगुणास्तदर्थाः' -न्यायसूत्र० १।१।१४। "पृथिव्यादीनि गुणाश्चेति द्वन्द्वसमासः ।" -न्यायवार्तिक पृ० २०५ ॥ ८. अभिव्यक्तम् A ॥ ९. अतश्छब्देन B ॥ १०. प्रयुज्यते A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org