________________
चिरन्तनजैनमुनीश्वरप्रणीतः
सर्वसिद्धान्तप्रवेशकः
॥ नमः सर्वज्ञाय ॥
सर्वभावप्रणेतारं प्रणिपत्य जिनेश्वरम् ।
वक्ष्ये सर्ववि(नि) गमेषु यदिष्टं तत्त्वलक्षणम् ॥१॥ सर्वदर्शनेषु प्रमाण- प्रमेयसमुच्चयप्रदर्शनायेदमुपदिश्यते ।
टिप्पणानि
श्रीशङ्खेश्वरपार्श्वं सद्गुरुदेवांश्च भुवनविजयाख्यान् । प्रणिपत्य परमभक्त्या टिप्पणमिह तन्यते किञ्चित् ॥
27
सर्वदर्शनसिद्धान्तेषु सम्यक् प्रवेशकतया यथार्थाभिधस्य चिरन्तनेन केनचिज्जैनमुनिप्रवरेण रचितस्यास्य सर्वसिद्धान्तप्रवेशकग्रन्थस्य तालपत्रेषु लिखितं यत् प्रतिद्वयं जेसलमेरनगरे जैनज्ञानभाण्डागारे विद्यते तदवलम्ब्य सम्पादितोऽयं ग्रन्थः । तत्रैका प्रतिर्विक्रमसंवत् १२०१ वर्षे लिखिता " ९ ३ x १३ । 'इंच' प्रमिता B इति संज्ञयात्र व्यवहृता । अस्यां प्रतौ दिङ्नागरचितो न्यायप्रवेशकः (पत्र १-१७), सर्वसिद्धान्तप्रवेशकः ( पत्र १७ - ४१), हरिभद्रसूरिविरचिता न्यायप्रवेशकटीका ( पत्र ४२ - १३४ ) इति ग्रन्थत्रयं विद्यते । अपरा त्वितोऽपि प्राचीना जीर्णप्राया १७ पत्रात्मिका " १२४१३" इंच (Inch ) प्रमिता प्रति: A संज्ञयात्र व्यवहृता । एवं च A - B प्रत्योर्मध्ये ये उपयोगिनः पाठभेदास्तेऽत्र A संकेतेन B संकेतेन वोपन्यस्ताः । स्पष्टीकरणाद्यर्थमुपयोगीनि टिप्पणानि च निवेश्य सम्पादितोऽयं ग्रन्थो देव- गुरुकृपाबलात् ॥
Jain Education International
१. सर्वनिगमेषु सर्वसिद्धान्तेष्विति भावः । " गमनं गमः परिच्छेद इत्यर्थः । निश्चितो गमो निगमः ।" - न्यायावतारवृत्ति पृ० ७५ । “निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ।" - हैमकोशः ॥ २. इदं मङ्गलपद्यं B प्रतौ नास्ति । ३. मपदि A ॥
For Private & Personal Use Only
www.jainelibrary.org