________________
४८३
પ્રમાણમીમાંસાનો સૂત્રપાઠ हानादिबुद्धयो वा ॥४०॥ प्रमाणाद्भिनाभिन्नम् ॥४१॥ स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां
प्रथमस्याध्यायस्य प्रथममाह्निकम् ॥ अविशदः परोक्षम् ॥१॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥२॥ वासनोबोधहेतुका तदित्याकारा स्मृतिः ॥३॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ।।५।। व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः ॥६॥ साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥ तत् द्विधा स्वार्थं परार्थं च ॥८॥ स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साधनात् साध्यज्ञानम् ।।९।। सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥ ऊहात् तनिश्चयः ॥११॥ स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥१२॥ सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥१३॥ प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥ साध्यं साध्यधर्मविशिष्टो धर्मी, वचित्तु धर्मः ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org