________________
૧.પ્રમાણમીમાંસાનો સૂત્રપાઠ अथ प्रमाणमीमांसा ॥१॥ सम्यगर्थनिर्णयः प्रमाणम् ।।२।। स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात् ॥३॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥४॥ अनुभंयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥५॥ विशेषानुल्लेख्यनध्यवसायः ॥६।। अतस्मिस्तदेवेति विपर्ययः ॥७॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥८॥ प्रमाणं द्विधा ॥९॥ प्रत्यक्षं परोक्षं च ॥१०॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः ॥११॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥१२॥ विशदः प्रत्यक्षम् ॥१३॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् ॥१४॥ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् ॥१५।। प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१६॥ बाधकाभावाच्च ॥१७॥ तत्तारतम्येऽवधिमन:पर्यायौ च ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org