________________
૨૯૨
હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા वक्तुं सिद्धयङ्गस्य पञ्चावयवप्रयोगस्यावचनात् सौगतस्य वादिनो निग्रहः । ननु चास्य तदवचनेऽपि न निग्रहः, प्रतिज्ञानिगमनयोः पक्षधर्मोपसंहारसामर्थ्येन गम्यमानत्वात्, गम्यमानयोश्च वचने पुनरुक्तत्वानुषङ्गात्, तत्प्रयोगेऽपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धः; इत्यप्यसत्, पक्षधर्मोपसंहारस्याप्येवमवचनानुषङ्गात् । अथ सामर्थ्याद्गम्यमानस्यापि यत् सत् तत् सर्वं क्षणिकं यथा घटः, संश्च शब्द इति पक्षधर्मोपसंहारस्य वचनं हेतोरपक्षधर्मत्वेनासिद्धत्वव्यवच्छेदार्थम्; तर्हि साध्याधारसन्देहापनोदार्थं गम्यमानाया अपि प्रतिज्ञायाः, प्रतिज्ञाहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थं निगमनस्य वचनं किं न स्यात् ? । नहि प्रतिज्ञादीनामेकार्थत्वोपदर्शनमन्तरेण सङ्गतत्वं घटते, भिन्नविषयप्रतिज्ञादिवत् । ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात्, अन्यथा नास्याः साधनाङ्गतेति चेत्; तर्हि भवतोऽपि हेतुतः साध्यसिद्धौ दृष्टान्तोऽनर्थकः स्यात्, अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोर्व्याप्तिप्रदर्शनार्थत्वात् नानर्थको दृष्टान्तः, तत्र तदप्रदर्शने हेतोरगमकत्वात्; इत्यप्ययुक्तम्, सर्वानित्यत्वसाधने सत्त्वादेर्दृष्टान्तासम्भवतोऽगमकत्वानुषङ्गात् । विपक्षव्यावृत्त्या सत्त्वादेर्गमकत्वे वा सर्वत्रापि हेतौ तथैव गमकत्वप्रसङ्गात् दृष्टान्तोऽनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् ? । तस्याश्चानभिधाने क्व हेतुः साध्यं वा वर्तते ? । गम्यमाने प्रतिज्ञाविषय एवेति चेत्; तर्हि गम्यमानस्यैव हेतोरपि समर्थन स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनम्; तथा प्रतिज्ञावचने कोऽपरितोषः ? । ___106. असाधनांगवयननी मेव्याच्या नाये भु४५ छ. साधन अर्थात् सिद्धिन અંગ છે ત્રણ રૂપોવાળું લિંગ, તેનું અવચન અર્થાત તેનો પ્રયોગ ન કરવો એટલે કે મૌન રહેવું યા તો તે બોલવું. અથવા સાધન અર્થાત્ ત્રણ રૂપોવાળું લિંગ, તેનું અંગ અર્થાત સમર્થન, તેનું અવચન અર્થાતુ તેનો વચન પ્રયોગ ન કરવો. અહીં ત્રિરૂપ લિંગના સમર્થનનો અર્થ છે વિપક્ષમાં બાધક પ્રમાણ દર્શાવવું. તાત્પર્ય એ કે ત્રણ લક્ષણોવાળા હેતુનો વચનપ્રયોગ ન કરવો અથવા સ્વહેતુનું સમર્થન ન કરવું અર્થાત્ વિપક્ષમાં બાધક પ્રમાણ ન દર્શાવવું એ વાદીનું અસાધનાંગવચન નામનું નિગ્રહસ્થાન છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org