________________
परीक्षामुखसूत्रपाठः
॥ तृतीयः परिच्छेदः ॥
१ परोक्षमितरत् ।
२ प्रत्यक्षादिनिमित्त ं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् ।
३ संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः ।
४ स देवदत्तो यथा ।
५ दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्विलक्षणं
तत्प्रतियोगीत्यादि ।
६ यथा स एवायं देवदत्तः । गोविलक्षणो महिषः । १० वृक्षोऽयमित्यादि ।
५
११ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । १२ इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च । १३ यथाऽग्नावेव धूमस्तदभावे न भवत्येवेति च । १४ साधनात्साध्यविज्ञानमनुमानम् ।
७. गोसदृशो गवयः ।
६.
इदमस्माद् दूरम् ।
१५ साध्याविनाभावित्वेन निश्चितो हेतुः ।
१६ सहक्रमभावनियमोऽविनाभावः ।
१७ सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः ।
१८ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः । १६ तर्कात्तनिर्णयः ।
२० इष्टमबाधितम सिद्धं साध्यम् ।
२१ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् । २२ प्रनिष्टाध्यक्षादिबाधितयो: साध्यत्वं माभूदितीष्टाबाधितवचनम् ।
२३ न चासिद्धवदिष्टं प्रतिवादिनः ।
२४ प्रत्यायनाय हीच्छा वक्तुरेव ।
२५ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी ।
२६ पक्ष इति यावत् ।
२७ प्रसिद्धो धर्मी ।
२८ विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये |
२६ अस्ति सर्वज्ञो नास्ति खरविषाणम् ।
३० प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ।
३१ श्रग्निमानयं देश: परिणामी शब्द इति यथा ।
३२ व्याप्तौ तु साध्यं धर्म एव ।
Jain Education International
३३ अन्यथा तदघटनात् ।
३४ साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् । ३५ साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ।
For Private & Personal Use Only
७०६
www.jainelibrary.org