________________
Jain Education International
मंगलस्तवः
वर्द्धमानं जिनं नौमि घातिकर्मक्षयंकरम् । वर्द्धमानं वर्तमाने तीर्थं यस्य सुखंकरम् ।। १ ।। श्री सर्वज्ञमुखोत्पन्ने ! भव्यजीव हित प्रदे । श्री शारदे ! नमस्तुभ्यं माद्यंत परिवर्जिते ॥ २ ॥ मूलोत्तर गुणाढया ये जैन शासन वर्द्धकाः । निर्ग्रन्थाः पाणि पात्रास्ते पुष्यन्तु नः समीहितम् ||३|| माणिक्यनंदि नामानं गुण माणिक्य मंडितम् । वन्दे ग्रन्थः कृतो येन परीक्षामुख संज्ञकः ।। ४ ।। प्रभाचन्द्र मुनिस्तस्य टीकां चक्रे सु विस्तृताम् । मयाभिवन्द्यते सोऽद्य विघ्न नाशन हेतवे ।। ५ ।। पञ्च ेन्द्रिय सुनिर्दान्तं पञ्चसंसार भीरुकम् । शांतिसागर नामानं सूरिं वन्देऽघनाशकम् ।। ६ ।। वीर सिन्धु गुरु स्तौमि सूरिगुरण विभूषितम् । यस्य पादयोर्लब्धम् मे क्षुल्लिका व्रत निश्चलम् ||७|| तपस्तपति यो नित्यं कृशांगो गुण पीनकः । शिवसिन्धु गुरु वन्दे महाव्रत प्रदायिनम् ॥ ८ ॥ धर्मसागर आचार्यो धर्मसागर वर्द्धने ।
चन्द्रवत् वर्त्तते योऽसौ नमस्यामि त्रिशुद्धितः ।। 2 ।। नाम्नी ज्ञानमती मार्यां जगन्मान्यां प्रभाविकाम् । भव्यजीव हितकारी विदुषीं मातृवत्सलां ।। १० ।। अस्मिन्नपर संसारे मज्जन्तीं मां सुनिर्भरम् । ययावलंबनं दत्तं मातरं तां नमाम्यहम् ।। ११ ।। पार्श्वे ज्ञानमती मातुः पठित्वा शास्त्राण्यनेकशः । संप्राप्तं यन्मया ज्ञानं कोटि जन्म सुदुर्लभम् ।। १२ ।। तत्प्रसादादहो कुर्वे, देशभाषानुवादनम् । नाम्नः प्रमेयकमल, मार्त्तण्डस्य सुविस्तृतम् ।। १३ ।।
*
For Private & Personal Use Only
www.jainelibrary.org