SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ६२८ ५१ रागद्वेषमोहाक्रान्त पुरुषवचनाज्जातमाग माभासम् । ५२ यथा नद्यास्तीरे मोदकाराशयः सन्ति धावध्वं माणवकाः । ५३ अंगुल्य हस्तियूथशतमास्त इति च । ५४ विसंवादात् । ५५ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् । ५६ लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुध्यादेश्चासिद्धेरतद्विषयत्वात् । ५७ सौगतसांख्ययोगप्राभाकरजैमिनीयानाम्प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावे रेकैकाधिकैर्व्याप्तिवत् । ५८ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । ५६ तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् अप्रमाणस्याव्यवस्थापकत्वात् । ६० प्रतिभासभेदस्य च भेदकत्वात् । ६१ विषयाभासः सामान्यं विशेषो द्वयं वा स्वतन्त्रम् । प्रमेय कमल मार्त्तण्डे Jain Education International ६२ तथाऽप्रतिभासनात्कार्याकररणाच्च । ६३ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् । ६४ परापेक्षणे परिणामित्वमन्यथा तदभावात् । ६५ स्वयमसमर्थस्य प्रकारकत्वात्पूर्ववत् । फलाभासं प्रमाणादभिन्नं भिन्नमेव वा । श्रभेदे तद्वयवहारानुपपत्तेः । ६८ व्यावृत्त्याऽपि न तत्कल्पना फलान्तरादु व्यावृत्त्याऽफलत्वप्रसंगात् । ६६ ६७ ६६ प्रमाणाद्व्यावृत्येवाप्रमाणत्वस्य । ७० तस्माद्वास्तवो भेदः । ७१ भेदे त्वात्मान्तरवत्तदनुपपत्तेः । ७२ समवायेऽतिप्रसंग: । ७३ प्रमाणतदाभासौ दुष्टतयोद्भावित परिहतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च । ७४ संभवदन्यद्विचारणीयम् । परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः । संविदे मादृशो बालः परीक्षादक्ष वद् व्यधाम् ॥ १॥ ॥ इति परीक्षामुखसूत्र पाठ समाप्त ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy