________________
૧૪
રત્નાકરાવતારિકા ભાગ-૩
परिच्छेद-८ विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः॥८-१॥ प्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥८-२॥ स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छुर्जिगीषुः ॥८-३॥ तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥८-४॥ अयं च द्वेधा स्वात्मनि परत्र च ॥८-५॥ आद्यः शिष्यादिः ॥८-६॥ द्वितीयो गुर्वादिः ॥८-७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८-८॥ एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥८-९॥ तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव । अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौःस्थ्यापत्तेः ॥८-१०॥ द्वितीये तृतीयस्य कदाचिद् व्यङ्गः, कदाचित् त्र्यङ्गः ॥८-११॥ तत्रैव द्वयङ्गस्तुरीयस्य ॥८-१२॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥८-१३॥ तुरीये प्रथमादीनामेवम् ॥८-१४॥ वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥८-१५॥ प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥८-१६॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥८-१७॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमता: सभ्याः ॥८-१८॥ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवाद-निर्देशः, साधकबाधकोक्तिगुणदोषावधारणम्, यथावसरं तत्त्वप्रकाशनेन कथाविरमणम्, यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि ॥८-१९॥ प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः ॥८-२०॥ वादिसभ्याभिहितावधारणं कलहव्यपोहादिकं चास्य कर्म ।८-२१। सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥८-२२॥ उभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णय, यावत् स्फूर्ति च वाच्यम् ।।८-२३॥
000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org