________________
तृतीय परिच्छेदः) अस्पष्टं परोक्षम् ॥ ३-१ ॥ स्मरण - प्रत्यभिज्ञान - तर्कानुमानागमभेदतस्तत् पञ्चप्रकारम् ॥३-२॥ तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥३-३॥ 'तत्तीर्थकरबिम्बम्' इति यथा ॥३-४॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं, संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥३-५॥ "तज्जातीय एवायं गोपिण्डः", "गोसदृशो गवयः", "स एवायं जिनदत्तः" इत्यादि ॥३-६॥ उपलम्भानुपलम्भसम्भवं, त्रिकालीकलितसाध्यसाधनसम्बन्धालम्बनं, "इदमस्मिन् सत्येव भवति" इत्याद्याकारं संवेदनमूहापरनामा तर्कः ॥३-७॥ यथा यावान् कश्चिद् धूमः, स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येव ॥३-८॥ अनुमानं द्विप्रकारं स्वार्थं परार्थं च ॥३-९॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥३-१०॥ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥३-११॥ न तु त्रिलक्षणकादिः ॥३-१२॥ तस्य हेत्वाभासस्यापि सम्भवात् ॥३-१३॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥३-१४॥ शहितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥३-१५॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् ॥३-१६॥ अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् ॥३-१७॥ व्याप्तिग्रहणसमयाऽपेक्षया साध्यं धर्म एव अन्यथा तदनुपपत्तेः ॥३-१८॥ न हि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्या प्यनुवृत्तिरस्ति ॥३-१९॥ आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी ॥३-२०॥ धर्मिणः प्रसिद्धिः कचिद्विकल्पतः, कुत्रचित्प्रमाणतः, कापि विकल्पप्रमाणाभ्याम् ॥३-२१॥ यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमान् ॥३-२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org