________________
ભારતીય તત્ત્વજ્ઞાન
( टीका - ज्ञायमाना हि दोषाः प्रामाण्यं विघ्नन्तीति तदज्ञानादेव तदपवादकं मिथ्यात्वं निवर्तते, तदज्ञानं चायत्नसिद्धमिति न काचिदनवस्थेति । )
१७२
तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥५३॥ श्लोकवार्तिक, चोदनासूत्र १. ३. विषयान्तरसदृशमालम्ब्य अगृहीतविवेकं यत् ज्ञानमुत्पन्नं तत्सदृशविषयान्तरे स्मृतिहेतुतां प्रतिपद्यते स्मरामीति ज्ञानशून्यस्य । उपपन्नानि तावत् शुक्तिकादिषु रजतादिज्ञानानि.... । (टीका-तत्र यदि यथाज्ञानमेव वस्तु न तर्हि विपरीतत्वम् । अथ विपरीतत्वं न तर्हि यथाज्ञानमेवालम्बनम् । उत्तरम्...। विषयान्तरं रजतात् शुक्तिकां रजतसदृशीमालम्ब्येदमित्यगृहीतविशेषं रजतात् भेदावगमहेतवो ये शुक्तिकायां विशेषास्तानिन्द्रियदोषेण सतोऽप्यगृहीत्वा साधारणानेव शुक्तिकाया धर्मान् गृह्णतो यत् ज्ञानमुत्पन्नं तत्सदृशान्तरे स्मृतिज्ञानहेतुतां प्रतिपद्यते । दोषवशात् खण्डितशुक्ति मनस्यनुभूतावमर्शाभावेन स्मरामीति ज्ञानशून्यस्य । तेन गृह्यमाणस्मर्यमाणयोर्भेदो नावसीयते । विज्ञानद्वयं चैतत् इदमिति प्रत्यक्षं रजतमिति स्मरणम्, अन्यथा रजतावगत्यसंभवात् । न हि तदिन्द्रियजम्, तेन सम्प्रयोगाभावात् । असंयुक्ते चेन्द्रियं विज्ञानं न जनयति । अन्धस्यानुत्पादात् । स्मरणमेवेदम् । उपपन्नानि तावच्छुक्तिकादिषु • रजतादिज्ञानानि स्मृतिरूपतया .... 1) - बृहती पृ० ५०-५१
I
१४. एवं प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वात्, अप्रामाण्यवत् । यदि तु स्वतो ज्ञायेत कदाचिदपि प्रामाण्यसंशयो न स्यात्, ज्ञानत्वसंशयवत् । निश्चि तदनवकाशात् । न हि साधकबाधकप्रमाणमवधूय समानधर्मादिदर्शनादेवासौ, तथा स तदनुच्छेदप्रसंगात् । अथ प्रमाणवदप्रमाणेऽपि तत्प्रत्ययदर्शनाद् विशेषादर्शनाद् भवति शंकेत्यभिप्रायः, तत्किं प्रमाणज्ञानोपलम्भेऽपि न प्रामाण्यमुपलब्धं प्रमाणज्ञानमेव वा नोपलब्धम् ? आद्ये कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः, द्वितीये कथं तत्र शंका, धर्मिण एवानुपलब्धेरिति । यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते, तदपि नास्ति । अन्यथैवोपपत्तेः । झटिति प्रवृत्तिस्तर्हि झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्, प्रचुरप्रवृत्तिरपि स्वकारणप्राचुर्यात्, इच्छा च प्रवृत्तेः कारणम् । तत्कारणमपीष्टाभ्युपायताज्ञानम्, तदपि तज्जातीयत्वलिंगानुभवप्रभवम्, सोऽपीन्द्रियसन्निकर्षादिजन्मा, न तु प्रामाण्यग्रहस्य क्वचिदुपयोगः । उपयोगे वा स्वत एवेति कुत एतत् । ततः समर्थप्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्यात् तद्ग्रहणप्राचुर्याद् वा । स्वतस्त्वं तु तस्य कोपयुज्यते ? न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमशक्तिस्तस्य प्रत्यक्षा स्यात् ।
- न्यायकुसुमांजलि, पृ. २२० - २३० १.५. ननु अस्तूक्तलक्षणं प्रमाणम्, तत्प्रामाण्यं तु स्वतः परतो वा निश्चीयेत ? न तावत् स्वतः, तद्धि स्वसंविदितत्वात् ज्ञानमित्येव गृह्णीयात् न पुनः सम्यक्त्वलक्षणं प्रामाण्यम्
Jain Education International
For Private & Personal Use Only
www.jajnelibrary.org