________________
१७०
ભારતીય તત્ત્વજ્ઞાન ५. यत्पुनरर्थक्रियाज्ञानस्यापि पूर्वस्मात् को विशेषः ? तस्यापि चान्यतः प्रामाण्यनिश्चयापेक्षा
यामनवस्थेत्युक्तं तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरोधित्वादसम्बद्धाभिधानम्, अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य ।...विशेषदर्शनाद् वा फलज्ञाने प्रामाण्यनिश्चयः । कः पुनर्विशेष इति चेत्, योऽयं शौचाचमनमज्जनामरपितृतर्पणपटक्षालनश्रमतापनोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः । न ह्ययमियान् कार्यकलापो मिथ्याज्ञानात् प्रवृत्तस्य क्वचिदपि दृष्टः । स्वप्नेऽप्यस्य प्रबन्धस्य दर्शनमस्तीति चेत्, न, स्वप्नदशाविसदृशविस्पष्टजाग्रदवस्थाप्रत्ययस्य संवेद्यत्वात् । एषोऽस्मि जागर्मि न स्वपिमीति स्वप्नविलक्षणमनिद्रायमाणमानसः प्रत्यक्षमेव जाग्रत्समयं सकलो जनश्चेतयते । न च तस्मिन्नवसरे सलिलमन्तरेणैताः क्रियाः प्रवर्तमाना दृश्यन्ते इति तद्विशेषदर्शनात् सुज्ञानमर्थक्रियाज्ञानप्रामाण्यम् । न्यायमञ्जरी (तृतीयमाह्निकम्), L. D. Series 97, पृ. ४५-५० ततस्ततोऽप्यर्थक्रियाधिगमः परोऽन्वेषणीय इत्यनवस्था । नेदं साधीयः । उत्तरार्थक्रियाभावात् पूर्वस्य यदि मानता । तदैवार्थक्रियाभावादुत्तरस्य कथं न सा ॥ यत्रार्थक्रियास्थितिरपरोपकल्पिता तद् यावत् प्रमाणम्, यत्र तु स्वतस्तदैवार्थ
क्रियानुभवस्तत्सुतरामेव प्रमाणम् । प्रमाणवार्तिकालंकार, पृ. ४ ७. प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः ।
नैयायिकास्ते परतः सौगताश्चरमं स्वतः ।। प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।
प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ।। (सर्वदर्शनसंग्रह, पृ. १०४) ૮. તેમ છતાં આ વલણ જૈનોનું છે એનો નિર્દેશ કર્યા વિના જયંત એની ઠેકડી ઉડાવે
छ. न्यायरी (तृतीय माह्नि), L. D. Series No 97, p. 53 ८. ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशादप्रमेति चेत् । एवं तर्हि दोषाभावमधिकमासाद्य प्रमाऽपि
जायेत, नियमेन तदपेक्षणात् । अस्तु दोषाभावोऽप्यधिको भावस्तु नेष्यते इति चेत् । भवेदप्येवं यदि नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् ।... तस्माद्यथा द्वेषरागाभावाविनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषकारणकत्वम्, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि ।
- न्यायकुसुमांजलि, पृ. २१३-२१८ (काशी संस्कृत सिरिज १९५७) ૧૦. અહીં કોઈ સૂચવે કે માત્ર રાગ કે દ્વેષથી જ માણસ ક્રિયા કરવા પ્રેરાય છે એવું
નથી પરંતુ કેટલીક વાર ઉપેક્ષાભાવથી પણ તે ક્રિયા કરવા પ્રેરાય છે. આમ ત્રણ પ્રકારની ક્રિયા સંભવે છે - રાગપ્રેરિત પ્રવૃત્તિ (વસ્તુને પ્રાપ્ત કરવાની ક્રિયા),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org