SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ७६३ द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं, उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानवर्गादिव्यवस्थापरिज्ञानं ४५, चारो-ज्योतिश्चारस्तद्विज्ञानं ४६, प्रतिचारः-प्रतिकूलश्चारो ग्रहाणां वक्रगमनादिस्तत्परिज्ञानं, अथवा प्रतिचरणं प्रतिचारो-रोगिणः प्रतीकारकरणं तद्शानं ४७, व्यूहयुयुत्सूनां सैन्यरचनां, यथा चक्रव्यूहे चक्राकृतौ तुम्बारकप्रध्यादिषु राउन्यकस्थापनेति ४८, प्रतिव्यूहतत्प्रतिद्वन्द्विनां तद्भङ्गोपायप्रवृत्तानां व्यूहं ४९, सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् व्यूहविशेषानाह-चक्रव्यूह चक्राकृतिसैन्यरचनामित्यर्थः ५०, गरुडव्यूहं गरुडाकृतिसैन्यरचनामित्यर्थः ५१, एवं शकटव्यूहं ५२, युद्धं कुर्कुटानामिव मुण्डामुण्डि शृङ्गिगामिव शृङ्गाङ्गि युयुत्सया योधयोर्वल्गनं ५३, नियुद्धं मल्लयुद्धं ५४, युद्वातियुदं-बङ्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात् ५५, दृष्टियुद्ध-योधप्रतियोवयोश्चक्षुषोर्निर्निमेषावस्थानं ५६, मुष्टियुद्धं-योधयोः परस्परं मुष्टया हननं ५७, बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाह्वोरेव निनंसया वल्गनं ५८, लतायुद्धं योधयोः, यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश[री] रं गाढं निपीड्य भूमौ पतति तल्लतायुद्धं ५९, इसत्थं 'ति प्राकृतथैल्या इषुशास्त्रं नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रं ६०, 'छरुप्पवायं 'ति त्सरुः खड्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्ग उच्यते, अवयवे समुदायोपचारः, तस्य प्रवादो यत्र शास्त्रे तत्सरुप्रवादं, खड्गशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु सरुप्रगतमिति पाठः ६१, धनुर्वेद-धनुःशास्त्रं ६२, हिरण्यपाक-सुवर्णपाको रजतसिद्धि-कनकसिद्धी ६३, ६४, 'सुत्तखेड्डे 'ति सूत्रखेलं सूत्रक्रीडा, अत्र खेलशब्दस्व खेड्ड इत्यादेशः ६५, एवं वस्त्रखेड्डमपि ६६, एतत्कलाद्वयं लोकतःप्रत्येतव्यं, 'नालिआखेड्डेति नालिकाखेलं द्यूतविशेषं, मा भूदिष्टदायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, द्यूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नालिकाखेलस्य प्राधान्यज्ञापनार्थ भेदेन ग्रहः ६७, पत्रच्छेद्यं अष्टोत्तरशतपत्राणां मध्ये विवक्षितसङ्ख्याकपत्रच्छेदने हस्तलाघवं ६८, कटच्छेद्यं कटवत् क्रमच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा, इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रियादौ चोपयोगि ६९, 'सजीवंति सजीवकरणं मृतधात्वादीनां सहजस्वरूपापादनं ७०, 'निजीवंति निर्जीवकरणं हेमादिधातुमारणं, रसेन्द्रस्य मूर्छाप्रापणं वा ७१, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजाद्युक्तसर्वशकुनसंग्रहः गतिचेष्टाग्बलादिपरिग्रहश्च ७२, इति द्वासप्ततिः पुरुषकलाः॥” इति जम्बूद्वीपप्रज्ञप्तिवृत्तौ पृ० १३६-१३९। “लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वाद्यं च ५ पठन ६ शिक्षे च। ज्योति ८ श्छन्दो ९ ऽलङ्कति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥१॥ कात्यायनं १४ निघण्टु १५ गज-तुरगारोहणं १६-१७ तयोः शिक्षा १८। शस्त्राभ्यासो १९ रस २० मन्त्र २१ यन्त्र २२ विष २३ खन्य २४ गन्धवादाश्च २५ ॥ २॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८ ऽपभ्रंशाः २९ स्मृतिः ३० पुराण ३१ विधी ३२। सिद्धान्त ३३ तर्क ३४ वैद्यक ३५ वेदा ३६ ऽऽगम ३७ संहिते ३८ तिहासाश्च ३९। सामुद्रिक ४० विज्ञाना ४१ ऽऽचार्यकविद्या ४२ रसायनं ४३ कपटम् ४४। विद्यानुवाददर्शन ४५ संस्कारौ ४६ धूर्तशम्बलकम् ४७ ॥४॥ मणिकर्म ४८ तरुचिकित्सा ४९ खेचर्य ५० मरीकले ५१ न्द्रजालं च ५२। पातालसिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६ ॥५॥ प्रासादलक्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६० चर्मकर्माणि ६१। पत्रच्छेद ६२ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकरणम् ६५ ॥६॥ काष्ठबटन ६६ देशभाषा ६७ गारुड ६८ योगाङ्ग ६९ धातुकर्माणि ७०। केवलविधि ७१ शकुनक्ते ७२ इति पुरुषकला द्विसप्ततिर्रायाः ॥७॥” इति पर्युषणाकल्पसूत्रस्य सुबोधिकायां व्याख्यायाम् अन्येन प्रकारेण कलानां द्वासप्ततिर्नामानि ॥ __ पृ० ४१३ पं० ३ वट्टखेडं। तुला-" वट्टखेड्डणमक्खरालिहणं ति वृत्तानां खटिकामयगोलकानां खेलनं क्रीडनं तैः सह कृतम् । तेन चाक्षरपातानुरूपतद्गोलकप्रतिबिम्बद्वारेण अक्षराणामकारादीनामालेखनं कारितास्ते, ते हि यदा शिक्ष्यमाणा अपि न शिक्षामाद्रियन्ते तत उपाध्यायेन तत्क्रीडनकमेवानुवर्तमानेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy