________________
७५२
अष्टमं परिशिष्टम् पृ० २९८ पं. ७ बलिस्स णं...। अटी. मध्ये "बलिस्सेत्यादि । बईत्यादि सूत्रसूचा। एवं दृश्यम्-वहरोयणिदस्स वइरोयणरनो सोमस्स य महारनो एवं चेव त्ति अतिदेशः।" इति दृश्यते । अतो जे० मध्ये बलिस्स गं वइरोयणिंदस्स एवं चेव इति यः संक्षिप्तः पाठो दृश्यते सः अटीकृतां समक्षमासीदिति भाति ।
पृ० २९९ पं० १४ माकंपइत्ता...। गाथेयं भगवतीसूत्रे २५/७१७९९ सूत्रेऽपि वर्तते, ६५७७ निशीथभाष्यगाथाया निशीथचूर्णावपि उद्धृता। दिगम्बरग्रन्थेषु मूलाचारे भगवती-आराधनायां [गा० ५६४] च दृश्यते, रत्नकरण्डकश्रावकाचारस्य प्रभाचन्द्राचार्यविरचितायां टीकायामपि चोद्धृता।
"इमे आलोयगस आलोयणा दोसा-आगंपइत्ता अणुमाणइत्ता, जं दिटुं बायरं च सुहुमं वा। छण्णं सहाउलगं बहुजण अन्वत्त तस्सेवी ॥ ॥ वेयावच्चकरणेहिं आयरियं आराहेत्ता आलोयण देंति-चरम योवं एस पच्छित्तं दाहिति ण वा दाहिति॥१॥ पुवामेव आयरियं अणुणेति-'दुब्बलो हं योवं मे पच्छित्तं देज्जह' ॥२॥ जो अतियारो अण्णेणं कज्जमाणो दिवो तं आलोएति, इयरं नो आलोएति ॥३॥ 'बायरं' महंता अवराहा, ते आलोएति, सुहुमा णो॥४॥ अहवा-सुहुमे आलोएति, नो बायरे। जो सुहुमे आलोएति सो कहं बायरे ण आलोएति, जो वा बायरे स कहं सुहुमे नालोएति ॥५॥'छण्णं 'ति, तहा अवराहे अप्पसद्देण उच्चरइ जहा अप्पणा चैव सुणेति, णो गुरु ।६। 'सहाकुलं' ति, महंतेण सद्देण वा आलोएति जहा अगीयातिणो वि सुगंति ।७। बहुजणमझे वा आलोएति, अहवा एक्करत आलोएति पुणो अण्णेसिं आलोएति । ८1 'अव्वत्तो' अगीयत्थो तस्म आलोएति । ९। 'तस्सेवित्ति, जो आयरिओ तेहिं व अवराहपदेहिं वति तस्सालोएति, 'एस मे अतियारतुल्ले, ण दाहिति, ण वा मे खरंटेहिति'।१०। ति ॥६५७७॥” इति निशीयचूर्णौ । भगवतीमाराधनायां ५६५ त आरभ्य ६०८ गाथापर्यन्तमस्या अतिविस्तरेण व्याख्या उपलभ्यते। सा तत्रैव विलोकनीया। "माकंपिय अणुमाणिय जं दिटुं बादरं च सुहुमं च । छण्णं सहाउलयं बहुजण भव्वत्त तस्सेवी॥ ५६४ ॥ भाकंपिय अनुकम्पामात्मनि सम्पाद्य आलोचना। अणुमाणिय गुरोरभिप्रायमुपायेन शात्वाऽऽलोचना। जं विटुं यद् दृष्टं दोषजातं परैस्तस्यालोचना । बादरं च यत्स्थूलमतिचारजातं तस्यालोचना । 'सुहुमंच' यत्सूक्ष्ममतिचार जातं तस्यालोचना। छण्णं प्रच्छन्नं अदृष्टालोचना । 'सहाउलयं' शब्दा आकुला यस्यां आलोचनायां सा शब्दाकुला। बहुजनशब्दः सामान्यविषयोऽपीह गुरुजनबाहुल्ये वर्तते । गुरोरालोचनायाः प्रस्तुतत्वाद् बहूनां गुरुणां आलोचना क्रियते सा बहुजनशब्देनोच्यते। 'अम्वत्ता' अव्यक्तस्य क्रियमाणा आलोचना। 'तस्सेवी' तानात्मचरितान् दोषान् यः सेवते स तत्सेवी, तस्य आलोचना। इदं सूत्रम् । अस्य व्याख्यानायोत्तरप्रवन्धः ॥ ५६४ ॥” इति भगवतीमाराधनाया विजयोदयायां टीकायाम्।।
पृ० २५३ पं० ११ उद्दायणे। श्वेताम्बरग्रन्थेषु यद्यपि 'उदायनः' इति नाम्नः प्रसिद्धिः, तथापि दिगम्बरग्रन्थेषु'उद्दायनः' इति नाम उपलभ्यते। तथाहि-"तावदञ्जनचौरोऽङ्गे ततोऽनन्तमतिः स्मृता। उहायनस्तृतीयेऽपि तुरीये रेवती मता ॥१९॥” इति रत्नाकरण्डकश्रावकाचारे। “एकदा सौधर्मेन्द्रेण निजसभायां सम्यक्त्वगुणं व्यावर्णयता भरते वत्सदेशे गैरकपुरे उहायनमहाराजस्य निर्विचिकित्सितगुणः प्रशंसितः। तं परीक्षितुं वासवदेव उदुम्बरकुष्ठकुथितं मुनिरूपं विकृत्य तस्यैव हस्तेन विधिना स्थित्वा सर्वमाहारं जलं च मायया भक्षयित्वाऽतिदुर्गन्धं बहु वमनं कृतवान् । दुर्गन्धभयाद् नष्टे परिजने प्रतीच्छतो राज्ञस्तद्देव्याश्च प्रभावत्या उपरि छदितम् । हा हा विरुद्ध आहारो दत्तो मया इत्यात्मानं निन्दयतस्तं च प्रक्षालयतः मायां परिहत्य प्रकटीकृत्य पूर्ववृत्तान्तं कथयित्वा प्रशस्य तं स्वर्ग गतः। उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपो गृहीत्वा मुक्तिं गतः। प्रभावती च तपसा ब्रह्मस्वर्गे देवो बभूव" इति रस्नकरण्डकश्रावकाचारटीकायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org