________________
श्री हिमवदाचार्यनिर्मिता स्थविरावली ऽऽर्यस्कन्दिलाचार्यनामानौ द्वौ शिष्यावभूताम् । आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीव विद्वांसः प्रभावकाश्चाभवन् । तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम्, एकादशांगोपरि चाऽऽर्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि । यदुक्तं तद्ररचिताचाराङ्गविवरणान्ते यथा
थेरस्स महुमित्तस्स सेहेहिं तिपुव्वनाणजुत्तेहिं । मुणिगणविवंदिएहिं ववगयरागाइदोसेहिं ॥१॥ बंभद्दीवियसाहामउडेहिं गंधहत्थिविबुहेहिं ।
विवरणमेयं रइयं दोसयवासेसु विक्कमओ ॥२॥ आर्यस्कन्दिलाचार्यसम्बन्धश्चैवम्-उत्तरमथुरायां मेघरथाभिधः परमः श्रमणोपासको जिनाज्ञाप्रतिपालको द्विजोऽभवत् । तस्य रूपसेनाऽभिधा सुशीला भार्याऽऽसीत् । तयोः सोमरथाभिधः सोमस्वप्नसूचितः सुतो बभूव । अथैकदा ते ब्रह्मद्वीपिकशाखोपलक्षिताः सिंहाचार्या विहारं कुर्वन्तः क्रमेणोत्तरमथुरोद्याने समागताः । तेषां धर्मदेशनां निशम्य प्राप्तवैराग्येण सोमरथेन चारित्रं गृहीतम् । इतोऽतीव भयंकरो द्वादशाब्दिको दुष्कालो भरता? संजातः । अतोऽर्हन्मार्गानुसारिणः केचन भिक्षवो भिक्षामलभमाना गृहीतानशना वैभार-कुमारगिर्यादिषु संलेखनया स्वर्जग्मुः । पूर्वसंकलितान्येकादशाङ्गानि जिनप्रवचनाधारभूतानि नष्टप्रायाणि संजातानि । दुर्भिक्षान्ते च विक्रमार्कस्यैकशताधिकत्रिपंचाशत्संवत्सरे स्थविरैरार्यस्कन्दिलाचार्यैरुत्तरमथुरायां जैनभिक्षूणां संघो मेलितः । एकशताधिकपंचविंशतिजैनभिक्षवः स्थविरकल्पानुयायिनो मधुमित्र-गन्धहस्त्यादयः संमिलिताः । सर्वेषां सावशेषमुखपाठान् मेलयित्वाऽऽर्यस्कन्दिलैगंधहस्त्याद्यनुमतैरेकादशाङ्गी पुनर्ग्रथिता । स्वल्पमतिभिक्षूणामुपकारार्थं चाऽऽर्यस्कन्दिलस्थविरोत्तंसैः प्रेरिता गन्धहस्तिन एकादशाङ्गानां विवरणानि भद्रबाहुस्वामिविहितनिर्युक्त्यनुसारेण चक्रुः । ततः प्रभृति च प्रवचनमेतत् सकलमपि माथुरीवाचनया भारते प्रसिद्धं बभूव । मथुरानिवासिना श्रमणोपासकवरेणो[पके]शवंशविभूषणेन पोलाकाभिधेन तत् सकलमपि प्रवचनं गन्धहस्तिकृतविवरणोपेतं तालपत्रादिषु लेखयित्वा भिक्षुभ्यः स्वाध्यायार्थं समर्पितम् । एवं श्रीजिनप्रवचनप्रभावनां विधायाऽऽर्यस्कन्दिलस्थविरा व्यधिकद्विशतवैक्रमीयसंवत्सरे मथुरायामेव कृतानशनाः स्वर्गं प्राप्ताः । इति श्रीस्कन्दिलाचार्यसम्बन्धः सम्पूर्णः ॥
॥ इति श्रीस्कन्दिलाचार्यशिष्यलेशश्रीहिमवदाचार्यनिर्मिता स्थविरावलिका समाप्ता ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org