________________
७२
कतिपयानि विशिष्टानि टिप्पनानि ।
हरिभद्रसूरिभिः तत्प्रान्ते “एवं गुरवो व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्राय पुनर्वयमतिगम्भीरत्वान्नावगच्छामः, परमार्थं त्वत्र विशिष्टश्रुतविदो विदन्तीत्यलं प्रसङ्गेन" इति नन्दीटीकायामभिहितम् । चूर्णिकारवचनं मनसि निधायैव तैरेतल्लिखितं भवेदिति प्रतीयते ॥
[पृ०२७६ पं०२३] “णेरइय-देव-तित्थंकरा य ओहिस्सऽबाहिरा हुंति ।.... ॥६६॥ 5 व्या० नारकाः प्राग्निरूपितशब्दार्थाः, देवा अपि, तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः अवधेः अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयम्अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः ।.... अथवा अन्यथा व्याख्यायते- नारक-देव-तीर्थकरा 10 अवधेरबाह्या भवन्तीती, किमुक्तं भवति ? नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः ॥"
इति आवश्यकसूत्रे हारिभद्र्यां वृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org