SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । उपासकाध्ययने श्रावकधर्मलक्षणम् । संसारस्यान्तः कृतो यैस्ते अन्तकृतः । नमिमतङ्गगसोमिलरामपुत्रसुदर्शनयमलीकवलीककिष्कम्बलपालाम्बष्ठपुत्रा इत्येते दश वर्धमानतीर्थङ्करतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये च दश दशानगारा दश दश दारुणानुपसर्गानिर्जित्य कृत्स्नकर्मक्षयादन्तकृतः दश अस्यां वर्ण्यन्ते इति 5 अन्तकृद्दशा । अथवा, अन्तकृतां दशा अन्तकृद्दशा, तस्याम् अर्हदाचार्यविधिः सिध्यतां च। उपपादो जन्म प्रयोजनं येषां त इमे औपपादिकाः, विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि, अनुत्तरेष्वौपपादिका अनुत्तरौपपादिकाः ऋषिदास-धान्य-सुनक्षत्र-कार्तिक-नन्द-नन्दनशालिभद्र-अभय-वारिषेण-चिलातपुत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये च दश दशानगारा दश दश दारुणानुपसर्गानिर्जित्य विजयाद्यनुत्तरेषूत्पन्ना 10 इत्येवमनुत्तरौपपादिकाः दशास्यां वर्ण्यन्त इत्यनुत्तरौपपादिकदशा । अथवा, अनुत्तरौपपादिकानां दशा अनुत्तरौपपादिकदशा, तस्यामायुर्वैक्रियिकानुबन्धविशेषः । ___ आक्षेपविक्षेपैर्हेतुनयाश्रितानां प्रश्नानां व्याकरणं प्रश्नव्याकरणम्, तस्मिंल्लौकिकवैदिकानामर्थानां निर्णयः । विपाकसूत्रे सुकृतदुःकृतानां विपाकश्चिन्त्यते । 15 द्वादशमङ्गं दृष्टिवाद इति । कौत्कल-काणेविद्धि-कौशिक-हरिस्मश्रु-मांछपिक-रोमश-हारीत मुण्डा-ऽश्वलायनादीनां क्रियावाददृष्टीनामशीतिशतम्, मरीचिकुमार-कपिलोलूक-गार्ग्य-व्याघ्रभूतिवाद्वलि-माठर-मौद्गल्यायनादीनामक्रियावाददृष्टीनां चतुरशीतिः, साकल्य-वल्कल-कुथुमि-सात्यमुनिनारायण-कठ -माध्यन्दिन-मोद-पैप्पलाद- बादरायणाम्बष्ठि - कृ दौ विकायन-वसु जैमिन्यादीनामज्ञानिकुदृष्टीनां सप्तषष्टिः, वशिष्ठ-पाराशर-जनुकर्णि-वाल्मीकि-रोमहर्षिणि-सत्यदत्त20 व्यासैलापुत्रौपमन्यवैन्द्रदत्तायस्थूणादीनां वैनयिकदृष्टीनां द्वात्रिंशत् । एषां दृष्टिशतानां त्रयाणां त्रिषष्ट्युत्तराणां प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते । स पञ्चविधः-परिकर्म सूत्रं प्रथमानुयोगः पूर्वगतं चूलिका चेति।" इति तत्त्वार्थराजवार्तिके १२२०॥ [पृ०२१३ पं० ६] "पज्जायाऽणभिधेयं ठिअमण्णत्थे तयत्थनिरवेक्खं । जाइच्छिअं च नामं जावदव्वं च पाएण ॥२५॥ यत् कस्मिंश्चिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते, तद् 25 नाम भण्यते । कथंभूतं तत् ?, इत्याह- पर्यायाणां शक्र-पुरन्दर-पाकशासन-शतमख-हरिप्रभृतीनां समानार्थवाचकानां ध्वनीनामनभिधेयमवाच्यम्, नामवतः पिण्डस्य संबन्धी धर्मोऽयं नाम्न्युपचरितः, स हि नामवान् भृतकदारकादिपिण्डः किलैकेन संकेतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्दैः, अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति । पुनरपि कथंभूतं तन्नाम ?, इत्याह- ठिअमण्णत्थे त्ति विवक्षिताद् भृतकदारकादिपिण्डादन्य30 श्चासावर्थश्चाऽन्यार्थो देवाधिपादिः, सद्भावतस्तत्र यत् स्थितम्, भृतकदारकादौ तु संकेतमात्रतयैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy