SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । कलाउ दो य । जीवा निसहस्सेसा, धणुपट्टे से इमं होइ ॥६०।। व्या० निषधस्य निषधवर्षधरस्य जीवा एषा यदुत चतुर्नवतिर्योजनानां सहस्राणि शतमेकं षट्पञ्चाशदधिकं द्वे च कले । तथाहिनिषधस्यावगाहः षड् लक्षाः त्रिंशत्सहस्राणि ६३००००, अनेन जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाण ऊनः क्रियते, जातं शेषं द्वादश लक्षाः सप्ततिसहस्राणि १२७००००, 5 एतद्यथोक्तेनावगाहेन गुण्यते, जातः अष्टकः शून्यं शून्यम् एककः अष्टौ शून्यानि ८००१००००००००। एष राशिभूयश्चतुर्भिर्गुण्यते, जातः त्रिकः द्विकः शून्यं शून्यं चतुष्कः शून्यान्यष्टौ ३२००४००००००००। एष निषधस्य जीवावर्गः, अस्य वर्गमूलानयने लब्ध एककः सप्तकः अष्टकः अष्टकः नवकः षट्कः षट्कः १७८८९६६ । शेषमिदं षट्कः पञ्चकः शून्यमष्टकः चतुष्कः चतुष्कः ६५०८४४ । छेदराशिः त्रिकः पञ्चकः सप्तकः सप्तकः नवकः त्रिकः द्विकः ३५७७९३२ । वर्गमूललब्धस्य तु 10 राशेर्योजनकरणार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं द्वे च कले ९४१५६ क० २ । धनुःपृष्ठं धनुःपृष्ठपरिमाणं 'से' तस्य निषधपर्वतस्येदं वक्ष्यमाणं भवति ॥६०॥” इति बृहत्क्षेत्र० मलय० । [पृ०१९४ पं०११] “नव चेव सहस्साइं, छावट्ठाइं सयाई सत्तेव । सविसेस कला चेगा, दाहिणभरहद्धधणुपढें ॥४३॥ व्या० दक्षिणभरतार्धधनुःपृष्ठं धनुःपृष्ठपरिमाणं नव सहस्राणि 15 सप्त शतानि षट्षष्टानि षट्षष्ट्यधिकानि, कला चैकोनविंशतिभागरूपा एका सविशेषा ९७६६ क० १ किञ्चिद्विशेषाधिका, तथाहि- धनुःपृष्ठस्य करणमिदम्- इषुवर्गं षड्गुणं जीवावर्गे प्रक्षिप्य यत्तस्य वर्गमूलं तद्धनुःपृष्ठमिति । तत्र दक्षिणभरतार्धस्येषुः कलारूपः पञ्चचत्वारिंशच्छतानि पञ्चविंशत्यधिकानि ४५२५, अस्य वर्गो द्विकः शून्यं चतुष्कः सप्तकः पञ्चकः षट्कः द्विकः पञ्चकः २०४७५६२५। एष षड्भिर्गुण्यते, जात एककः द्विकः द्विकः अष्टकः पञ्चकः त्रिकः सप्तकः पञ्चकः 20 शून्यम् १२२८५३७५०, एष राशिदक्षिणभरतार्धस्य सत्के जीवावर्गे त्रिकश्चतुष्कस्त्रिकः शून्यमष्टक: शून्यं नवकः सप्तकः पञ्चकः शून्यं शून्यम् ३४३०८०९७५०० इत्येवंरूपे प्रक्षिप्यते, ततो जातो राशिः त्रिकः चतुष्कः चतुष्कः त्रिकः शून्यं नवकः पञ्चकः एककः द्विकः पञ्चकः शून्यम् ३४४३०९५१२५० । अस्य वर्गमूले लब्धम् एककः अष्टकः चत्वारः पञ्चकाः १८५५५५ । शेषस्तूपरितनो राशिर्द्विकः नवकः त्रिकः द्विकः द्विकः पञ्चकः २९३२२५, छेदराशिः त्रिकः सप्तकः 25 त्रय एककाः शून्यम् ३७१११० । वर्गमूललब्धस्य तु राशेर्योजनकरणार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां नव सहस्राणि सप्त शतानि षट्षष्ट्यधिकानि कला चैका ९७६६ क० १ ॥४३॥ [पं०.१४] साम्प्रतमस्यैव वैताढ्यपर्वतस्य धनुःपृष्ठमाह- दस चेव सहस्साइं, सत्तेव सया हवंति तेयाला । धणुपटुं वेयडे, कला य पन्नरस हवंति ॥४५।। व्या० दश सहस्राणि सप्त 30 शतानि त्रिचत्वारिंशानि त्रिचत्वारिंशदधिकानि योजनानां कलाश्च पञ्चदश भवन्ति १०७४३ क० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy