________________
तृतीयं परिशिष्टम्- कतिपयानि विशिष्टानि टिप्पनानि । [पृ०२६ पं०१७] सम्प्रति चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिश्च प्राय एकरूपैव संजाता उपलभ्यते, अतः एतद्विषये सूर्यप्रज्ञप्तिसूत्रं तट्टीका चात्र उपन्यस्येते अस्माभिः
“ता कहं ते जोतिसस्स दारा आहिताति वदेजा । तत्थ खलु इमाओ पंच पडिवत्तिओ 5 पन्नत्ताओ- तत्थेगे एवमाहंसु-ता कत्तियादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता । एगे पुण
एवमाहंसु - ता महादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता । एगे पुण एवमाहंसु-ता धणिट्ठादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता। एगे पुण एवमाहंसु-ता अस्सिणीयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता । एगे पुण एवमाहंसु-ता भरणीयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता...
वयं पुण एवं वदामो-ता अभिईयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता तंजहा-अभिई सवणो 10 धणिट्ठा सतभिसया पुव्वापोट्ठवया उत्तरापोट्टवया रेवती। अस्सिणीयादिया णं सत्त नक्खत्ता
दाहिणदारिया पन्नत्ता तंजहा-अस्सिणी भरणी कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू । पुस्सादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तंजहा-पुस्सो अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता । सातियादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तंजहा-साती विसाहा अनुराहा
जेट्ठा मूले पुव्वासाढा उत्तरासाढा।” इति चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ च। 15 अस्य व्याख्या- “ता कहं ते जोइसदारा इत्यादि, ता इति पूर्ववत्, कथम् ? - केन
प्रकारेण केन क्रमेणेत्यर्थः ज्योतिषो - नक्षत्रचक्रस्य द्वाराणि आख्यातानीति वदेत् ? एवमुक्ते भगवानेतद्विषये यावत्यः परतीथिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- तत्थेत्यादि, तत्र - तेषां पञ्चानां परतीर्थिकसङ्घातानां मध्ये एके एवमाहुः - कृत्तिकादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि,
इह येषु नक्षत्रेषु पूर्वस्यां दिशि गच्छतः प्रायः शुभमुपजायते तानि पूर्वद्वारकाणि, एवं दक्षिणद्वारकादीन्यपि 20 वक्ष्यमाणानि भावनीयानि, अत्रैवोपसंहारमाह- एगे एवमाहंसु एके पुनरेवमाहुः - अनुराधादीनि
सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, अत्राप्युपसंहारः- एगे एवमाहंसु एवं शेषाण्यप्युपसंहारवाक्यानि योजनियानि, एके पुनरेवमाहुः-धनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः- अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि एके पुनरेवमाहुः भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि,
सम्प्रत्येतेषामेव पञ्चानामपि मतानां भावनिकामाह- तत्थ जे ते एवमाहंसु इत्यादि सुगमम्, भगवान् 25 स्वमतमाह- वयं पुण इत्यादि पाठसिद्धम् ॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकविंशतितमे प्राभृतप्राभृते।
[पृ०३९ पं०१८] “अथ प्रतिमाप्रतिमास्वरूपमाह- सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमि-चउद्दसीसुं पडिमं ठाएगराईयं १०।१७॥ सम्म० गाहा । सम्यगिति सम्यक्त्वम्, अणुव्रत-गुणव्रत-शिक्षापदानि प्रतीतानि । तानि यस्य सन्ति स तद्वान् । पूर्वोक्तप्रतिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org