SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २६४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अडयालकयवणमाल त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाए वा कृता वनमाला वनस्पतिपल्लवस्रजो येषु तानि तथा । तथा लाइयं ति यद् भूमेश्छगणादिनोपलेपनम् उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणम्, ततस्ताभ्यामिव महितानि पूजितानि लाउल्लोइयमहितानि । तथा गोशीर्षं चन्दनविशेषः सरसं च रसोपेतं 5 यद् रक्तचन्दनं चन्दनविशेषः, ताभ्यां दर्दराभ्यां घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का दर्दरेण चपेटाभिघातेन दर्दरेषु वा सोपानवीथीषु दत्ताः पञ्चाङ्गुलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि । तथा कालागुरुः कृष्णा गुरुर्गन्धद्रव्यविशेष: प्रवरः प्रधानः कुन्दुरुक्कः चीडा तुरुष्कः सिल्हकं गन्धद्रव्यमेव 10 एतानि च तानि डज्झंत त्ति दह्यमानानि चेति विग्रहः, तेषां यो धूमो मघमघेत त्ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः तेनोद्धुराणि उत्कटानि यानि तानि तथा, तानि च तान्यभिरामाणि च रमणीयानीति समासः । तथा सुगन्धयः सुरभयो ये वरगन्धाः प्रधानवासास्तेषां गन्ध: आमोदो येष्वस्ति तानि सुगन्धिवरगन्ध गन्धिकानि । तथा गन्धवर्तिः गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन निर्वर्तिता 15 गुटिका, तद्भूतानि तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः । तथा अच्छानि आकाशस्फटिकवत्, सह त्ति श्लक्ष्णानि सूक्ष्मस्कन्धनिष्पन्नत्वात्, श्लक्ष्णदलनिष्पन्नपटवत्, लण्ह त्ति मसृणानीत्यर्थः, घुण्टितपटवत्, घट्ट त्ति घृष्टानीव घृष्टानि खरशानया पाषाणप्रतिमावत्, मट्ठ त्ति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेव, शोधितानि वा प्रमार्जनिकयेव, अत एव नीरय त्ति नीरजांसि 20 रजोरहितत्वात्, निम्मल त्ति निर्मलानि कठिनमलाभावात्, वितिमिर त्ति वितिमिराणि निरन्धकारत्वात, विसुद्ध त्ति विशुद्धानि निष्कलकत्वात्, न चन्द्रवत् सकलङ्कानीत्यर्थः। तथा सप्पह त्ति सप्रभाणि, सप्रभावाणि अथवा स्वेन आत्मना प्रभान्ति शोभन्ते प्रकाशन्ते वेति स्वप्रभाणि, यतः समिरीय त्ति समरीचीनि सकिरणानि अत एव १. च तानि यानि तानि तथा, तेषां यो हे२ । च यानि तानि तथा, यो हे१ ॥ २. उत्कुटानि खं० जे२ ॥ ३. नि:पंकत्वात् हे१,२ । नि:पंचकत्वात् जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy