SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २५० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पश्चादाचारादि । नन्वेवं यदाचारनियुक्त्यामभिहितं सव्वेसिं आयारो पढमो [आचा० नि० ८] इत्यादि तत् कथम् ?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनां प्रतीत्य भणितं 'पूर्वं पूर्वाणि कृतानि' इति । तच्च पूर्वगतं चतुर्दशविधं प्रज्ञप्तम्, तद्यथा- उप्पायेत्यादि, तत्रोत्पादपूर्व प्रथमम्, 5 तत्र च सर्वद्रव्याणां पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी । अग्गेणीयं द्वितीयम, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चाऽग्रं परिमाणं वर्ण्यत इत्यग्रेणीतम्, तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि । वीरियं ति वीर्यप्रवादं तृतीयम्, तत्राप्यजीवानां जीवानां च सकर्मेतराणां वीर्यं प्रोच्यत इति वीर्यप्रवादम् । तस्यापि सप्ततिः पदशतसहस्राणि परिमाणम् । 10 अस्तिनास्तिप्रवादं चतुर्थम्, यद्यल्लोके यथास्ति यथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितम्, तदपि पदपरिमाणतः षष्टिः पदशतसहस्राणि। ज्ञानप्रवादं पञ्चमम्, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता तस्मात् ज्ञानप्रवादम्, तस्मिन् पदपरिमाणमेका कोटी एकपदोनेति । सत्यप्रवादं षष्ठम् । सत्यं संयमः सत्यवचनं वा, 15 तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत् सत्यप्रवादम्, तस्य पदपरिमाणम् एका पदकोटी षट् च पदानीति । आत्मप्रवादं सप्तमम्, आय त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादम्, तस्य पदपरिमाणं षड्विंशतिः पदकोट्यः। कर्मप्रवादमष्टमम्, ज्ञानावरणादिकमष्टविधं कर्म प्रकृति-स्थित्यनुभाग-प्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत् कर्मप्रवादम्, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति । प्रत्याख्यानं 20 नवमम्, तत्र सर्वप्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादम्, तत्परिमाणं चतुरशीतिः पदशतसहस्राणीति। विद्यानुप्रवादं दशमम्, तत्रानेके विद्यातिशया वर्णिताः, तत्परिमाणमेका पदकोटी दश च पदशतसहस्राणीति । अवन्ध्यमेकादशम्, वन्ध्यं नाम निष्फलम्, न वन्ध्यमवन्ध्यं सफलमित्यर्थः, तत्र हि सर्वे ज्ञान-तपः-संयमयोगाः शुभफलेन १. “सव्वेसिं आयारो, तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई, एक्कारस आणुपुवीए ॥८॥" - इति आचाराङ्गनिर्युक्तौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy