________________
[सू० १४६] विपाकश्रुतवर्णनम् ।
२४३ फलविपाका विपाकोदयास्ते तथा, ते आख्यायन्त इति योगः, केषामित्याह-निरयगतौ तिर्यग्योनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा, तेषाम्, जीवानामिति गम्यते, तथा मणुयत्ति त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषेण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायते इति प्रकृतम्, तथाहि-व्यधो यष्ट्यादिताडनं वृषणविनाशो वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च 5 ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां च यच्छेदनं तत्तथा, जिह्वाछेदनम्, अंजण त्ति अञ्जनं तप्तायःशलाकया नेत्रयोः, म्रक्षणं वा देहस्य क्षार-तैलादिना, कडग्गिदाहणं ति कटानां विदलवंशादिमयानामग्निः कटाग्निस्तेन दाहनं कटाग्निदाहनम्, कटेन परिवेष्टितस्य बोधनमित्यर्थः, तथा गजचलनमलनं फालनं विदारणम् उल्लम्बनं वृक्षशाखादावुद्बन्धनम्, तथा शूलेन लतया लकुटेन यष्ट्या च भञ्जनं गात्राणाम्, 10 तथा त्रपुणा धातुविशेषेण, सीसकेन च तेनैव, तप्तेन तैलेन च कल-कल त्ति सशब्देनाभिषेचनम्, तथा कुम्भ्यां भाजनविशेषे पाकः कुम्भीपाकः, कम्पनं शीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननम्, तथा स्थिरबन्धनं निबिडनियन्त्रणम्, वेधः कुन्तादिना शस्त्रेण भेदनम्, वर्द्धकर्त्तनं त्वगुत्त्रोटनम्, प्रतिभयकरं भयजननं तच्च तत् करप्रदीपनं च वसनावेष्टितस्य तैलाभिषिक्तस्य 15 करयोरग्निप्रबोधनमिति कर्मधारयः, ततश्च व्यधश्च वृषणविनाशश्चेत्यादि यावत् प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः, ततस्तानि आदिर्येषां दुःखानां तानि, तथा तानि च तानि दारुणानि चेति कर्मधारयः, कानीमानीत्याह- दुःखानि, किंभूतानि ? अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविविधपरम्पराभिः दुःखानामिति गम्यते, अनुबद्धाः सन्ततमालिगिता 20 बहुविविधपरम्परानुबद्धा जीवा इति गम्यते, न मुच्यन्ते न त्यज्यन्ते, कया ? पापकर्मवल्लया दुःखफलसम्पादिकया, किमित्याह- यतोऽवेदयित्वा अननुभूय कर्मफलमिति गम्यते, हुर्यस्मादर्थे, नास्ति न भवति मोक्षो वियोगः कर्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह- तपसा अनशनादिना, किम्भूतेन ? धृतिः १. विधौ जे२ । वधो जे१ । “व्यध ताडने" - पाधा० ११८१ ॥ २. अग्निप्रबोधनमित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org