________________
[सू० १३७] सूत्रकृताङ्गवर्णनम् ।
२१५ मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानाम् ? अचिरकालप्रव्रजितानाम्, चिरप्रव्रजिता हि निर्मालमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाद् बहुश्रुतसंपर्काच्चेति, पुनः किंभूतानाम् ? कुसमयमोह[मोहमइमोहियाणं ति, कुत्सितः समयः सिद्धान्तो येषां ते कुसमयाः कुतीर्थिकाः, तेषां मोहः पदार्थेष्वयथावद् बोधः कुसमयमोहः, तस्माद्यो मोहः श्रोतृमनोमूढता, तेन मतिर्मोहिता 5 मूढतां नीता येषां ते कुसमयमोहमोहमतिमोहिताः । अथवा कुसमयाः कुसिद्धान्ताः, तेषाम् ओघः संघो मकारस्तु प्राकृतत्वात्, तस्माद्यो मोहः मूढता, तेन मतिर्मोहिता येषां ते कुसमयौघमोहमतिमोहिताः । अथवा कुसमयानां कुतीथिकानां मौधो मोघो वा शुभफलापेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमौधमोहमतिमोहिता: कुसमयमोघमोहमतिमोहिता वा, तेषाम्, तथा 10 संदेहाः वस्तुतत्त्वं प्रति संशयाः कुसमयमोहमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् जाता येषां ते सन्देहजाताः, तथा सहजात् स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद् बुद्धिपरिणामात् मतिस्वभावात् संशयो जातो येषां ते सहजबुद्धिपरिणामसंशयिताः, सन्देहजाताश्च सहजबुद्धिपरिणामसंशयिताश्च ये ते तथा, तेषाम्, श्रमणानामिति प्रक्रमः, किमत आह– पापकरो विपर्यय-संशयात्मकत्वेन 15 कुत्सितप्रवृत्तिनिबन्धनत्वादशुभकर्महेतुरत एव च मलिनः स्वरूपाच्छादनादनिर्मलो यो मतिगुणो बुद्धिपर्यायस्तस्य विशोधनाय निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थम् । __ आसीयस्स किरियावाइसयस्स त्ति अशीत्यधिकस्य क्रियावादिशतस्य व्यूह कृत्वा स्वसमयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रिया योजनीयेति । तत्र 20 न कर्तारं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः - जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्या-ऽपुण्यमोक्षाख्यान्नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, १. चिरकालप्रव्र' हे१,२ ॥ २. का विना जे१,२ हे२ ॥ ३. क्रिया भवतीति जे२ हे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org