________________
२१३
[सू० १३७]
आचाराङ्गवर्णनम् । _ किंभूता एते ? सासया कडा निबद्धा निकाइय त्ति शाश्वता: द्रव्यार्थतया अविच्छेदेन प्रवृत्तेः, कृताः पर्यायार्थतया प्रतिसमयमन्यथात्वावाप्तेः, निबद्धाः सूत्र एव ग्रथिताः, निकाचिता नियुक्ति-सङ्ग्रहणि-हेतूदाहरणादिभिः प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः पदार्था अन्येऽप्यजीवादयः आघविजंति त्ति प्राकृतशैल्या आख्यायन्ते सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्ते 5 नामादिस्वरूपकथनेन, यथा पजायाणभिधेय [विशेषाव० २५] मित्यादि, दर्श्यन्ते उपमामात्रतः यथा गौर्गवयस्तथा [मी० श्लो० वा० ] इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन, उपदर्श्यन्ते उपनय-निगमनाभ्यां सकलनयाभिप्रायतो वेति ।
साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह- से एवमित्यादि, स इत्याचाराङ्गग्राहको गृह्यते, एवंआय त्ति अस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, 10 तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु न दृष्टं नन्द्यां तु दृश्यते इतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्य आह- एवंनाय त्ति इदमधीत्य एवंज्ञाता भवति यथैवेहोक्तमिति, एवंविनाय त्ति विविधो विशिष्टो वा ज्ञाता विज्ञाता एवंविज्ञाता भवति, तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः । एवमित्यादि निगमनवाक्यम्, एवम् 15 अनेन प्रकारेणाऽऽचारगोचरविनयाद्यभिधानरूपेण चरण-करणप्ररूपणता आख्यायत इति, चरणं व्रत-श्रमणधर्म-संयमाद्यनेकविधम्, करणं पिण्ड विशुद्धिसमित्याद्यनेकविधम्, तयोः प्ररूपणता प्ररूपणैव आख्यायते इत्यादि पूर्ववदिति, सेत्तं आयारे ति तदिदमाचारवस्तु अथवा सोऽयमाचारो यः पूर्वं पृष्ट इति ॥१॥
[सू० १३७] से किं तं सूयगडे ? सूयगडेणं ससमया सूइजंति, परसमया 20 सूइजंति, ससमय-परसमया सूइज्जंति, जीवा सूइजंति, अजीवा सूइज्जंति, १. “कीदृग् गवय इत्येवं पृष्टो नागरिकैर्यदि । ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा ॥१॥” इति मीमांसा श्लोकवार्तिके उपमानपरिच्छेदे न्यायरत्नाकरस्य टीका “प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्” (न्या० सू० १.१.६) इति अक्षपादेनोक्तम्, कीदृशो गवयः इत्येवं नागरिकेण पृष्टो वन्यः प्रसिद्धेन गवा साधादप्रसिद्धं गवयं येन वाक्येन बोधयति यथा- गौरिव गवयः इति, तद्वाक्यम् उपमानमिति । २. सेतं हे१ विना ॥ ३. पूर्वपृष्ट खं० हे२ । पूर्वदृष्ट हे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org