________________
२०७
[सू० १३२-१३५]
९००० आदिस्थानकानि । दाहिणेत्यादि, दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं तस्य जीवेव जीवा ऋज्वी सीमा प्राचीनं पूर्वतः प्रतीचीनं पश्चिमतः आयता दीर्घा प्राचीनप्रतीचीनायता दुहओ त्ति उभयतः पूर्वापरपार्श्वयोरित्यर्थः, समुद्रं लवणसमुद्रं स्पृष्टा छुप्तवती, नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयम्- नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला इति ।।९०००।१००००॥ 5 १०००००॥२०००००॥३०००००॥४०००००॥
लवणेत्यादि, तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च ॥५०००००॥ जंबूदीवस्सेत्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि धातकीखण्डस्येति सप्त लक्षाण्यन्तरं सूत्रोक्तं भवतीति ॥७०००००॥
[सू० १३२] अजियस्स णं अरहतो सातिरेगाइं नव ओहिणाणिसहस्साई 10 होत्था ।
[सू० १३३] पुरिससीहे णं वासुदेवे दस वाससतसहस्साइं सव्वाउयं पालइत्ता पंचमाए पुढवीए णरएसु नेरइयत्ताते उववन्ने ।
[सू० १३४] समणे भगवं महावीरे तित्थकरभवग्गहणातो छ? पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणित्ता सहस्सारे कप्पे 15 सव्वढे विमाणे देवत्ताते उववन्ने ।
[सू० १३५] उसभसिरिस्स भगवतो चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अबाधाए अंतरे पण्णत्ते ।
[टी०] अजितस्याहंतः सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेकश्च चत्वारि शतानि, इदं च सहस्रस्थानकमपि सल्लक्षस्थानकाधिकारे यदधीतं तत् 20 सहस्रशब्दसाधाद्विचित्रत्वाद्वा सूत्रगतेर्लेखकदोषाद्वेति ॥९०००॥ द्विचत्वारिंशदधिकानि अपरे चैकोनविंशतिभागरूपे द्वे कले १६८४२ क० २ । एतावन्निषधपर्वतस्य विष्कम्भपरिमाणम्।।" - इति बृहत्क्षेत्रसमासस्य मलयगिरिविरचितायां टीकायाम् ॥ १. “जोयणसहस्सनवगं, सत्तेव सया हवंति अडयाला । बारस य कला सकला, दाहिणभरहद्धजीवाओ ॥३९॥" - इति बृहत्क्षेत्रसमासे प्रथमेऽधिकारे ॥ २. जंबुद्दी जे१ खं० ॥ ३. स्थानाङ्गे तु “पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्ठाते तमाए पुढवीए नेरतितत्ताए उववन्ने” (सू० ७३५) इति पाठः॥ ४. श्चत्वारि खं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org