SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 5 पुढवि-दग-अगणि-मारुय एक्वेक्वे सत्त जोणिलक्खाओ । वण पत्ते अणंते दस चोद्दस जोणिलक्खाओ ॥ विगलिंदिए दो दो चउरो चउरो य नारय- सुरेसु । तिरिएसु होंति चउरो चोद्दस लक्खा य मणुसु ॥ [ बृहत्सं० ३५१ - ३५२] त्ति । इह च जीवोत्पत्तिस्थानानामसंख्येयत्वेऽपि समानवर्ण - गन्ध-रस- - स्पर्शानां तेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति । पुव्वाइयाणमित्यादि, पूर्वमादिर्येषां तानि पूर्वादिकानि तेषाम्, शीर्षप्रहेलिका पर्यवसाने येषां तानि 10 शीर्ष प्रहेलिकापर्यवसानानि तेषाम्, स्वस्थानात् पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः स्थानान्तराणि अनन्तरस्थानान्यव्यवहितसंख्याविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसंख्यास्थानविशेषा इत्यर्थः, अथवा स्वस्थानानि पूर्वस्थानानि स्थानान्तराणि च अनन्तरस्थानानि स्वस्थान-स्थानान्तराणि, अथवा 15 स्वस्थानात् प्रथमस्थानात् पूर्वाङ्गलक्षणात् स्थानान्तराणि विलक्षणस्थानानि स्वस्थानस्थानान्तराणि तेषाम्, चतुरशीत्या लक्षैरिति शेषः, गुणकारः अभ्यासराशिः प्रज्ञप्तः, तथाहि किल चतुरशीत्या लक्षैः पूर्वाङ्गं भवतीति स्वस्थानम्, तदेव चतुरशीत्या लक्षैर्गुणितं पूर्वमुच्यते तच्च स्थानान्तरमिति, एवं पूर्वं स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवति, इह सङ्ग्रहगाथेपुव्वतुडियाडडाववहूहुय तह उप्पले य पउमे य । नलिणत्थनिउर अउए नउए पउए य नायव्वे ॥ [ ] चूलियसीसपहेलिय चोद्दस नामा उ अंगसंजुत्ता । अट्ठावीसं ठाणा चउणउयं होड़ ठाणसयं ॥ [ ] ति । 20 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे योनिप्रमुखानि तेषां शतसहस्राणि लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथम् ? 25 १८० - Jain Education International 9 अभिलापश्चैषाम् - पूर्वाङ्गं पूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति । चउरासीतिमित्यादि, इह विभागोऽयम् १. चउदस जे१ खं० ॥ २. चउदस जे१ ॥ ३. अत्र संग्रह जे१ खं० ॥ ४. हुहुय जे२ हे१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy