________________
[सू० ७९] एकोनाशीतितमस्थानकम् ।
१७३ [टी०] अथैकोनाशीतितमस्थानके किञ्चिल्लिख्यते, तत्र वलयामुहस्स त्ति वडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य पायालस्स त्ति महापातालकलशस्याधस्तनचरमान्ताद् रत्नप्रभापृथिवीचरमान्त एकोनाशीत्यां सहस्रेषु भवति, कथम् ? रत्नप्रभा हि अशीतिसहस्राधिकं योजनानां लक्षं बाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहृत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, 5 ततस्तच्चरमान्तात् पृथिवीचरमान्तो यथोक्तान्तर एव भवति, एवमन्येऽपि त्रयो वाच्या इति ।
छट्ठीए इत्यादि, अस्य भावार्थ:- षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षं षोडश च सहस्राणि भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिः सहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठोऽसावेकविंशतिः संभाव्यते, तदेवं 10 षष्ठपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भर्वति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात् पञ्चमीमाश्रित्येदं सूत्रमवसेयम्, यतस्तद्वाहल्यमष्टादशोत्तरं लक्षमुक्तम्, यत आह
पंढमाऽसीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुजा ॥ [बृहत्सं० २४१] इति । 15
अथवा षष्ठ्याः सहस्राधिकोऽपि मध्यभागो मध्यभागो विवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति । तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवेजयन्त-जयन्ता-ऽपराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भाणि गव्यूतपृथुलद्वार१. भवंति जे२ खं० ॥ २. °वतीति खं० ॥ ३. “अत्र प्राकृतत्वात् प्रथमाशब्दात् परत्र विभक्तेर्लोपः, प्रथमायां धर्माभिधायां पृथिव्यामुच्चस्त्वपरिमाणं परिभावयन्नशीतिसहस्राणि लक्षस्योपरि कुर्यात् । किमुक्तं भवति ? प्रथमाया रत्नप्रभायाः पृथीव्या अशीतियोजनसहस्राधिको योजनलक्षो बाहल्यमिति । एवं द्वितीयादिष्वपि पृथिवीषु बाहल्यपरिभावने द्वात्रिंशदादीनि योजनसहस्राणि लक्षस्योपरि कुर्यात् । अत्राप्ययं भावार्थः- द्वितीयस्यां पृथिव्यां विंशतियोजनसहस्राधिकः। पञ्चम्यामष्टादशयोजनसहस्राधिकः । षष्ठ्यां षोडशयोजनसहस्राधिकः । सप्तम्यामष्टयोजनसहस्राधिक इति । योजनं चेह प्रमाणाङ्गुलनिष्पन्नं द्रष्टव्यम् । रत्नप्रभायां च पृथिव्यामशीतियोजनसहस्राधिको लक्षः एवम्- षोडशसहस्रप्रमाणं प्रथम खरकाण्डम्, द्वितीयं पङ्कबहुलं काण्डं चतुरशीतियोजनसहस्रमानम्, तृतीयमशीतियोजनसहम्रप्रमाणं जलबहुलं काण्डमिति । शेषास्तु पृथिव्यः सर्वा अपि पृथिवीस्वरूपाः, केवलं शर्कराप्रभा शर्कराबहुला वालुकाप्रभा वालुकाबहुलेत्येवं नामानुसारतो विशेषस्वरूपं परिभावनीयम् ॥” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org