SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १४८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अष्टपञ्चाशत्स्थानकम् । विमुक्त्यभिधानमाचारचूलिका, तद्वर्जानाम्, तत्राऽऽचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्याचारचूलिकेति परिहतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश, द्वितीये सप्त, स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति । 5 गोथुभेत्यादौ भावार्थोऽयम्-द्विचत्वारिंशत् सहस्राणि वेदिका-गोस्तुभपर्वतयोरन्तरम्, सहस्रं गोस्तुभस्य विष्कम्भः, द्विपञ्चाशद् गोस्तुभ-वडवामुखयोरन्तरम्, दशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदर्धा पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति। जीवाणं धणुपट्ट त्ति । मण्डलखण्डाकारं क्षेत्रम्, इह सूत्रे संवादगाथार्द्धम्- सत्तावन्न सहस्सा धणुं पि तेणउय दुसय दस य कल [बृहत्क्षेत्र० ५७] त्ति 10 ॥५७॥ [सू० ५८] पढम-दोच्च-पंचमासु तीसु पुढवीसु अट्ठावण्णं निरयावाससतसहस्सा पण्णत्ता । नाणावरणिजस्स वेयणिय[स्स] आउय[स्स] नाम[स्स] अंतराइयस्स य एतेसि णं पंचण्हं कम्मपगडीणं अट्ठावण्णं उत्तरपगडीतो पण्णत्तातो ।। 15 गोथुभस्स णं आवासपव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं अट्ठावण्णं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं चउद्दिसिं पि नेतव्वं । [टी०] अष्टपञ्चाशत्स्थानकेऽपि किमपि लिख्यते । पढमेत्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिः पञ्चम्यां त्रीणीति सर्वाण्यष्टपञ्चाशदिति । 20 नाणेत्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः । गोथुभस्सेत्यादि, अस्य च भावार्थः पूर्वोक्तानुसारेणावसेयः । एवं चउद्दिसिं पि नेयव्वं ति अनेन सूत्रत्रयमतिदिष्टम्, तच्चैवम्- ‘दओभासस्स णं आवासपव्वयस्स उत्तरिल्लाओ चरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे एस णं अट्ठावन्नं जोयणसहस्साई अबाहाए अंतरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy