________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पञ्चपञ्चाशत्स्थानकम् । चउद्दिसिं पि वेजयंतं जयंतं अपराजियं ति ।
समणे भगवं महावीरे अंतिमरातियंसि पणपण्णं अज्झयणाई कल्लाणफलविवागाइं पणपण्णं अज्झयणाणि पावफलविवागाणि वागरेत्ता सिद्धे बुद्धे जाव प्पहीणे । 5. पढम-बितियासु दोसु पुढवीसु पणपण्णं निरयावाससतसहस्सा पण्णत्ता।
दंसणावरणिज-णामा-ऽऽउयाणं तिण्हं कम्मपगडीणं पणपण्णं उत्तरपगडीतो पण्णत्तातो ।
[टी०] पञ्चपञ्चाशत्स्थानके किञ्चिद् लिख्यते। मंदरस्सेत्यादि, इह मेरो: पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्राणि योजनानां भवतीत्युक्तम्, तत्र 10 किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत् सहस्राणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेरुविष्कम्भस्य च दशसाहसिकत्वाद् द्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवतीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणां जगत्या बाह्यान्ते पूर्यमाणत्वात्,
जम्बूद्वीपजगतीविष्कम्भेण च सह जम्बूद्वीपलक्षं पूरणीयम्, लवणसमुद्रजगतीविष्कम्भेण 15 च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाज्जगतीमानस्य पृथग् गणने
मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात्, सा हि पञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत् पूर्णतया विवक्षितेति । अंतिमराइयंसि त्ति सर्वायु:कालपर्यवसानरात्रौ रात्रेऽन्तिमे भागे पापायां मध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्तिकमासामावास्यायां स्वातिना नक्षत्रेण 20 चन्द्रमसा युक्तेन नागे करणे प्रत्यूषसि पर्यङ्कासननिषण्णः पञ्चपञ्चाशदध्ययनानि
कल्लाणफलविवागाई ति कल्याणस्य पुण्यस्य कर्मणः फलं कार्यं विपाच्यते व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि, व्याकृत्य प्रतिपाद्य सिद्धो बुद्धः, यावत्करणात् ‘मुत्ते अंतकडे परिनिव्वुडे सव्वदुक्खप्पहीणे' १. 'नके त्विदं लि जे१ खं० हे१,२ ॥ २. मंदरस्येत्यादि जे१ खं० हे१,२ ॥ ३. भवंतीति जे१ खं० हे२॥ ४. च नास्ति जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org