SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [सू० २९] एकोनत्रिंशत्स्थानकम् । मन्त्रानुयोगश्चेटकादिमन्त्रसाधनोपायशास्त्राणि २७, योगानुयोगो वशीकरणादियोगाभिधायिकानि हरमेखलादिशास्त्राणि २८, अन्यतीर्थिकेभ्यः कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो विचारः तत्पुरस्करणार्थं शास्त्रसन्दर्भ इत्यर्थः सोऽन्यतीर्थिकप्रवृत्तानुयोग इति २९ । तथाऽऽषाढादय एकान्तरिता षण्मासा एकोनत्रिंशद्रात्रिंदिवानि रात्रिंदिवपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्णपक्षे प्रत्येकं 5 रात्रिंदिवस्यैकस्य क्षयात्, आह च आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुण-वइसाहेसु य बोधव्वा ओमरत्ताओ ॥ [उत्तरा० २६।१५] त्ति । इयमत्र भावना- चन्द्रमासो हि एकोनत्रिंशद् दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्च त्रिंशदेव दिनानि भवतीति चन्द्रमासापेक्षया 10 ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता समधिको भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकै केन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्ट्या चन्द्रदिवसानामेकषष्टिरहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेषस्त्विह चन्द्रप्रज्ञप्तेरवसेय इति । तथा चंददिणे णं ति चन्द्रदिनं प्रतिपदादिका तिथिः, तच्चैकोनत्रिंशद् मुहूर्ताः 15 सातिरेका मुहूर्तपरिमाणेनेति, कथम् ? यतः किल चन्द्रमास एकोनत्रिंशद् दिनानि द्वात्रिंशच्च दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंशन्मुहूर्ता द्वात्रिंशच्च मुहूर्तस्य द्विषष्टिभागा लभ्यन्त इति । १. °णार्थः हे२ ॥ २. रात्रिदिवसपरि' खं० । रात्रिंदिवप्रमाणेन हे२ ॥ ३. रात्रिंदिवसस्यै खं० ॥ ४. “आसाढे ति आषाढे बहुलपक्षे भाद्रपदादिषु च बहुलपक्षे ओम त्ति अवमा न्यूना एकेनेति शेषः, रत्त त्ति पदैकदेशेऽपि पदप्रयोगदर्शनादहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः ॥२६॥१५॥" इति उत्तराध्ययनसूत्रस्य शान्तिसूरिविरचितायां पाईयटीकायाम् । तथा ओघनिर्युक्तौ गा० २८५।। ५. बोद्धव्वा जे२ ॥ ६. प्रतिषु पाठाः- रत्ताओ हे१,२ । 'रणाओ जे१ । राओ त्ति जे२ । “रवाओ त्ति खं० ॥ ७. भवंतीति हे१,२ ॥ ८. चन्द्रप्रज्ञप्तेः द्वादशे प्राभृते विशेषजिज्ञासुभिर्विलोकनीयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy