________________
८६
10
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ऊससंति वा णीससंति वा । तेसि णं देवाणं चउवीसाए वाससहस्साणं आहारट्टे समुप्पजति २॥
संतेगतिया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति] ३॥ 5 [टी०] चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राक्, सुगमानि च । नवरं देवानाम्
इन्द्रादीनामधिका देवाः पूज्यत्वाद् देवाधिदेवा इति । तथा जीवाओ त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां वर्षधराणां च ऋज्वी सीमा जीवोच्यते, आरोपितज्यधनुर्जीवाकल्पत्वात्, तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणम् २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किञ्चिद्विशेषाधिकः, अत्र गाथा
चउवीस सहस्साई नव य सए जोयणाण बत्तीसे । ___ चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ [बृहत्क्षेत्र० ५२] त्ति, कलार्द्धमिति एकोनविंशतिभागस्यार्द्धम्, तच्चाष्टत्रिंशद्भाग एव भवतीति ।
चतुर्विंशतिर्देवस्थानानि देवभेदाः, दश भवनपतीनाम्, अष्टौ व्यन्तराणाम्, पञ्च ज्योतिष्काणाम्, एकं कल्पोपपन्नवैमानिकानाम्, एवं चतुर्विंशतिः, सेन्द्राणि 15 चमरादीन्द्राधिष्ठितानि, शेषाणि ग्रैवेयका-ऽनुत्तरसुरलक्षणानि 'अहम् अहम्' इत्येवमिन्द्रा
येषु तान्यहमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः, अत एव अनिन्द्राणि अविद्यमाननायकानि अपुरोहितानि अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति । १. व्या०- “योजनानां चतुर्विंशतिसहस्राणि नव शतानि द्वात्रिंशानि द्वात्रिंशदधिकानि एकं च कलार्धमित्येतावत्परिमाणायामेन पूर्वापरतया दैर्येण क्षुल्लहिमवतो जीवा । तथाहि- जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाणोऽवगाहेन क्षुल्लहिमवतः संबन्धिना त्रिंशत्सहस्रपरिमाणेन ३०००० इषुणा हीनः क्रियते, ततो जातं शेषमिदम्- अष्टादश लक्षाः सप्ततिसहस्राणि १८७०००० । एतद्यथोक्तपरिमाणेन ३०००० अवगाहेन गुण्यते, जातः पञ्चकः षट्कः एककः अष्टौ शून्यानि ५६१०००००००० । एष राशिभूयश्चतुभिर्गुण्यते, जातो द्विकः द्विकः चतुष्कः चतुष्कः अष्टौ शून्यानि २२४४०००००००० । अस्य वर्गमूलानयने लब्धः चतुष्कः सप्तकः त्रिकः सप्तकः शून्यं अष्टकः ४७३७०८ । शेषस्तु राशिरुद्धरति सप्तकः त्रिकः शून्यं सप्तकः त्रिकः षट्कः ७३०७३६ । छेदराशिः नवकः चतुष्कः सप्तकः चतुष्कः एककः षट्कः ९४७४१६ । ततः कलार्धानयनार्थमुद्धरितो राशिर्द्विकेन गुण्यते छेदराशिना च भज्यते, ततो लब्धमेकं कलार्धं । वर्गमूललब्धस्य तु कलाराशेर्योजनानयनार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां चतुर्विंशतिसहस्राणि नव शतानि द्वात्रिंशदधिकानि २४९३२ एकं च कलार्धम् १॥९२॥" इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org