SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७द आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे समाधिरसमाधिस्तस्याः स्थानानि आश्रया भेदा वा असमाधिस्थानानि । तत्र दवदवचारित्ति यो हि द्रुतं द्रुतं चरति गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरासमाधिस्थानापेक्षया समुच्चयार्थः, भवतीति प्रसिद्धम्, स च द्रुतं द्रुतं संयमा-ऽऽत्मनिरपेक्षो व्रजन्नात्मानं प्रपतनादिभिरसमाधौ योजयति अन्यांश्च सत्त्वान् 5 घ्नन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतगन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयम् १, तथा अप्रमार्जितचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदन-त्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता अतिप्रमाणा शय्या वसतिरासनानि च पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, स च 10 अतिरिक्तायां शय्यायां घङ्घशालादिरूपायामन्येऽपि कार्पटिकादय आवासयन्ति इति तैः सहाधिकरणसम्भवादात्म-परावसमाधौ योजयतीति, एवमासनाधिक्येऽपि वाच्यमिति ४, तथा रानिकपरिभाषी आचार्यादिपूज्यपुरुषपरिभवकारी, स चात्मानमन्यांश्चासमाधौ योजयत्येव ५, तथा स्थविरा आचार्यादिगुरवः, तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वोपहन्तीत्येवंशीलः स एव चेति 15 स्थविरोपघातिकः ६, तथा भूतानि एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः ७, तथा सवलतीति सज्वलनः प्रतिक्षणं रोषणः ८, तथा क्रोधनः सकृत् क्रुद्धोऽत्यन्तक्रुद्धो भवति ९, तथा पृष्ठिमांसिकः पराङ्मुखस्य परस्यावर्णवादकारी १०, अभिक्खणं अभिक्खणं ओहारयित्त त्ति अभीक्ष्णमभीक्ष्णमवधारयिता शङ्कितस्याप्यर्थस्य निःशङ्कितस्य ‘एवमेवायम्' इत्येवं वक्ता, अथवाऽवहारयिता 20 परगुणानामपहारकारी, यथा अदासादिकमपि परं भणति- दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां कलहानां यन्त्रादीनां वोत्पादयिता १२, पोराणाणं ति पुरातनानां कलहानां क्षमित-व्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति १३, तथा सरजस्कपाणि-पादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ सङ्क्रामन्न पादौ प्रमार्टि, अथवा १. भवतीति जे२ ॥ २. (निःशङ्कितस्येव ?) ॥ ३. 'मयन्न जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy