________________
[सू० ११]
एकादशस्थानकम् । सामायिकं सावद्ययोगपरिवर्जन-निरवद्ययोगासेवनस्वभावं कृतं विहितं देशतो येन स सामायिककृतः, आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वम्, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति । तथा पोषं पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत् पौषधम्, तेनोपवसनम् अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं पर्वदिनमष्टम्यादि 5 तत्रोपवासः अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहार-शरीरसत्कारा-ऽब्रह्मचर्य-व्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः स एवंविधश्रावकश्चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः - पूर्वप्रतिमात्रयोपेत : (पेतस्य) अष्टमी-चतुर्दश्यमावास्या-पौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थप्रतिमा भवतीति । तथा 10 पञ्चमप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवतीति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते, दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी, रत्तिं ति रात्रौ, किम् ? अत आह- परिमाणं स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावः- दर्शन-व्रतसामायिका-ऽष्टम्यादिपौषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा 15 ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्याऽरात्रिभोजिनः अबद्धकच्छस्य पञ्च मासान् यावत् पञ्चमी प्रतिमा भवतीति, उक्तं च
अट्ठमिचउद्दसीसुं पडिमं ठाएगराईयं ॥ पश्चार्द्धम् । असिणाणवियडभोई मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो पडिमावज्जेसु दियहेसु ॥ [पञ्चाशक० १०११७-१८] त्ति ॥ 20
तथा दिवापि रात्रावपि ब्रह्मचारी, असिणाइ त्ति अस्नायी स्नानपरिवर्जकः, क्वचित् पठ्यते- अनिसाइ त्ति न निशायामत्तीत्यनिशादी, वियडभोइ त्ति विकटे प्रकटे १. “८९९ निष्ठा ।२।२।३६। निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । ....... ९०० वाऽऽहिताग्न्यादिषु ।२।२।३७। आहिताग्निः। अग्न्याहितः । आकृतिगणोऽयम् ।" इति पाणिनीयव्याकरणस्य व्याख्यायां सिद्धान्तकौमुद्याम् ।। २. °मान चतुरो जे२ । जे२ अनुसारेण तु ‘पूर्वप्रतिमात्रयोपेतः अष्टमी-चतुर्दश्यमावास्या-पौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानाः] चतुरो मासान् यावत् चतुर्थप्रतिमा भवतीति' इति पाठः संभवेदत्र ।। ३. भवत्येतदर्थं खं० ॥
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org