SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अष्टस्थानकम् । २९ [सू० ९] कूटशाल्मली वृक्षविशेष एव, देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति । जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति । तथा पार्श्वस्याहतः त्रयोविंशतितमतीर्थकरस्य पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदानीयः आदेयः पुरुषादानीयस्तस्य अष्टौ गणाः समानवाचना-क्रियाः साधुसमुदायाः, अष्टौ गणधराः तन्नायकाः सूरयः, इदं चैतत् प्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके 5 अन्यथा, तत्र युक्तम् दस नवगं गणाण माणं जिणिंदाणं [आव० नि०२६८] ति । कोऽर्थः ? पार्श्वस्य दश गणाः गणधराश्च । तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुमातव्येति । सुभे इत्यादि श्लोकः । तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई ‘चन्द्रो मध्येन तेषां गच्छति' इत्येवंलक्षणं 10 योगं सम्बन्धं योजयन्ति कुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियाम् पुणव्वसु रोहिणी चित्ता मह जेट्टणुराह कित्तिय विसाहा । चंदस्स उभयजोग [लोकश्री] त्ति । यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद् भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्- एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिच्चन्द्रेण भेदमप्युपयान्ति [लोकश्रीटीका] इति । तथा अति॒िरादीन्येकादश 15 विमाननामानि ॥८॥ [सू० ९] [१] नव बंभचेरगुत्तीओ पण्णत्तातो, तंजहा- नो इत्थीपसुपंडगसंसत्ताणि सेज्जासणाणि सेवित्ता भवति १, नो इत्थीणं कहं कहित्ता भवइ २, नो इत्थीणं ठाणाइं सेवित्ता भवति ३, नो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएत्ता निज्झाएत्ता [भवति] ४, नो पणीयरसभोई [भवति] 20 १. सू०६१८ ॥ २. “पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणहरा हुत्था, तंजहा- सुभे य १ अजघोसे य २, वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे ६ चेव, वीरभद्रे ७ जसे वि य ८ ॥१६०॥" - इति पर्युषणाकल्पसूत्रे पार्श्वनाथचरित्रे ॥ ३. “तित्तीस अट्ठवीसा अट्ठारस चेव तहय सत्तरस । इक्कारस दस नवगं गणाण माणं जिणिंदाणं ॥” इति सम्पूर्णा गाथा आवश्यकनिर्युक्तौ ॥ ४. दृश्यतां स्था० टी० पृ०७६२ ।। ५. दृश्यतां स्था० सू० ६६३, स्था० टी० पृ० ७६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy