________________
32
CRITIQUE OF AN AUTHORITY the things in question it should not be genuine separateness which is conceived as a quality residing in more than one object (and hence nonseparate from the objects acting as its seat). (28)
Note : Vasunandin reads aprthakkştau for apsthak tu tau, but the reading will give no different meaning.
पृथाभूतपदार्थेभ्यः पृथक्त्वस्यपृथग्भावेतेषामपृथक्त्वप्रसङ्गात्। तद्गुणगुणिनोरतादात्म्ये घटपटवत् व्यपदेशोऽपि माभूत्, सम्बन्धनिबन्धनान्तराभावात्। पृथक्त्वमन्यद्वा पृथग्भूतमनंशमनेकस्थेषु निष्पर्यायं वर्तते इति दुरवगाहम् ॥२८॥
सन्तान: समुदायश्च साधर्म्यं च निरङ्कुशः। प्रेत्यभावश्च तत् सर्वं न स्यादेकत्वनिह्नवे ॥२९॥
If the reality of oneness (as characterizing many things) is repudiated one cannot legitimately speak of the phenomena - all genuine without a shadow of doubt - like series (of successive entities), aggregate (of simultaneous entities), similarity (between any two entities), re-birth. (29)
कार्यकारणयोः पृथक्त्वैकान्ते कार्यकालमात्मानमनयत: कारणत्वासंभवात् तद्नुत्पत्तेः कुतः सन्ततिः ? पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोः अतिशयात्मनोः अन्वयः सन्तानः । क्वचित् क्षणान्तरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत् कथञ्चित् एकत्वमेव भवितुमर्हति । तदवयवपृथक्त्वकल्पनायां चित्रनिर्भासो मा भूत्, पृथग्वर्णान्तरविषयानेकसन्तानैकक्षणवत् । तत्र प्रत्यासत्तिविशेष: कथञ्चिदैक्यात् कोऽपरः स्यात् ? अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकान्तप्रसङ्गात् । स्वभावभेदेऽपि सहोपलम्भनियमात् कथञ्चिदभेदाभ्युपगमे कथमेकसन्तानसंविदां समनन्तरोपलम्भनियमात् कथञ्चिदैक्यं न स्यात् ? तत्र यया प्रत्यासत्या सन्तानः समुदायश्च तयैव कथञ्चिदैक्यमस्तु । न हि तादृशां साधर्म्यम् अन्यत् अन्यत्रात्मसाङ्कर्यात् । एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनङ्कुशः तथा प्रेत्यभावादिषु सन्तानोऽन्वयः परमार्थंकत्वमात्मसत्त्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदनन्यत्र वर्तयति॥२९।।
सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाऽप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ।।३०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org