SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पदस्य संयोगान्तस्य यो रस्तत: परस्य सस्यैव लुक् स्यात्। चिकी: , कटचिकी: । स एवेति किम् ? उर्छ , न्यमा ।।९०॥ नाम्नो नोऽनह्नः ।।१।९१॥ पदान्ते नाम्नो नस्य लुक् स्यात् , स चेदह्रो न स्यात् । राजा , राजपुरुष: । अनह्न इति किम् ? अहरेति ।।९।। नाऽऽमन्त्रये ।२।११९२॥ आमन्त्रयार्थस्य नाम्नो नस्य लुक् न स्यात् । हे राजन् ! ।।१२।। क्लीबे वा ।२।११९३॥ आमन्त्रयार्थस्य नाम्नः क्लीबे नस्य लुग् वा स्यात् । हे दाम ! , हे दामन् ! ॥९३॥ मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः ।२।१९४॥ मावर्णी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मों व् स्यात् । किंवान् , शमीवान् , वृक्षवान् , मालावान् , अहर्वान् , भास्वान् , मरुत्वान् ॥१४॥ नानि ।२।११९५॥ संज्ञायां मतोर्मो व स्यात् । अहीवती मुनीवती नद्यौ ॥९५|| चर्मण्वत्यष्ठीवच्चक्रीवत्-कक्षीवद्-रुमण्वत् ।२।१९६॥ एते मत्वन्ता: संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी , अष्ठीवान् जानु: , चक्रीवान् खरः , कक्षीवान् ऋषि: , रुमण्वान् गिरिः ।।९६|| उदन्वानब्धौ च ।२।११९७॥ अब्धौ जलाधारे नाम्नि च मतौ उदन्वान् निपात्यते । उदन्वान् घट: , उदन्वान् समुद्रः ऋषि: आश्रमश्च ।।९७|| राजन्वान् सुराज्ञि ।२।११९८॥ सुराजकेऽर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः , राजन्वत्यः प्रजाः ॥९८|| १. व पा१,३ । वः खं१,३ J3 || २. वः खंर विना । व पा१,३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy