________________
४८
स्वोपज्ञलघुवृत्तिविभूषितं
दोग्धा , धोक्ष्यति , अधोक् , गोधुक् । भ्वादेरिति किम् ? दामलिहमिच्छति दामलिट् ।।८३॥
मुह-द्रुह-ष्णुह-ष्णिहो वा ।२।११८४॥ एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात् । मोग्धा , मोढा ; उन्मुक् , उन्मुट । द्रोग्धा , द्रोढा ; मित्रध्रुक् , मित्रध्रुट् । स्नोग्धा , स्नोढा ; उत्स्नुक् , उत्स्नुट् । स्नेग्धा , स्नेढा ; चेलस्निक् , चेलस्निट् ।।८४॥
नहाहोर्ध-तौ ।२।११८५॥ नहेर्नूस्थानाऽऽहश्च धातो: धुटि प्रत्यये पदान्ते च यथासंख्यं ध-तौ स्याताम् । नद्धा , उपानद्भ्याम् , आत्थ ।।८५||
च-जः क-गम् ।२।१।८६॥ धुटि प्रत्यये पदान्ते च चे-जो: के-गौ स्याताम् । वक्ता , वाक् , त्यक्ता . , अर्द्धभाक् ।। ८६।। यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिवाजः शः षः।२।१८७॥
यजादीनां धातूनां च-जोः शस्य च धुटि प्रत्यये पदान्ते च पू स्यात् । यष्टा , देवेट् ; स्रष्टा , तीर्थसृट् ; मार्टा , कंसपरिमृट् ; राष्टिः , सम्राट ; भ्राष्टिः , विभ्राट् ; भ्रष्टा , धानाभृट् ; व्रष्टा , मूलवृट् ; परिव्राट् ; लेष्टा , प्रष्टा , शब्दप्राट् । यजादिसाहचर्याच्छोऽपि धातोरेव स्यात् , इह मा भूत्-निज्भ्याम् । चज इत्येव-वृक्षवृश्चमाचष्टे वृक्षव् ।।८७||
संयोगस्यादौ स्कोर्लुक् ।२।१।८८॥ धुट-पदान्ते संयोगादिस्थयो: स्कोर्लुक् स्यात् । लग्न: , साधुलक् , वृक्ण: , मूलवृट् , तष्टः , काष्ठतट् ।।८८।।
पदस्य ।२।१।८९॥ पदस्य संयोगान्तस्य लुक् स्यात् । पुमान् , पुंभिः , महान् । पदस्येति किम् ? स्कन्त्वा ।।८।।
रात सः ।२।१।९०॥ १. च वा घः J3 || २. चजोः यथासंख्यम् खं१ खंमूर ।। ३. क्-गौ खं१ पा१ J3 विना
॥४. षः J311
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org