SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात् । मुनिवद् वृत्तम् , उरस्तः , उच्चैस्तराम् ||३४|| क्त्वा-तुमम् ।।११३५॥ क्त्वा-तुम्-अम्प्रत्ययान्तमव्ययं स्यात् । कृत्वा , कर्तुम् , यावज्जीवमदात् ||३५|| गतिः ।।१।३६॥ गतिसंज्ञमव्ययं स्यात् । अद:कृत्य । र: सो न स्यात् ।।३६।। अप्रयोगीत् ।११३७॥ इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते , यजते , चित्रीयते ॥३७|| अनन्तः पञ्चम्याः प्रत्ययः ।।१।३८॥ पञ्चम्याद् विहितोऽन्तशब्दानिर्दिष्टः प्रत्यय: स्यात् । नामः प्रथमैक-द्वि-बहौ [२/२/३१] वृक्षः । अनन्त इति किम् ? आगम: प्रत्ययो मा भूत् ।।३८।। डत्यतु संख्यावत् ।।१।३९॥ डत्यन्तम् अत्वन्तं च संख्याकार्यभाक् स्यात् । कतिक: , यावत्कः ॥३९।। बहु-गणं भेदे ।शश४०॥ बहु-गणशब्दो भेदवृत्ती सङ्ख्यावत् स्याताम् । बहुकः , गणकः । भेद इति किम् ? वैपुल्ये संघे च मा भूत् ॥४०॥ क-समासेऽध्यर्द्धः ।१।१॥४१॥ अध्यर्द्धशब्द: के समासे च विधेये संख्यावत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥४१|| अर्द्धपूर्वपदः पूरणः ।।११४२॥ अर्द्धपूर्वपदः पूरणप्रत्ययान्त: समास: के समासे च कार्ये संख्यावत् स्यात् । अर्द्धपञ्चमकम् , अर्द्धपञ्चमशूर्पम् ।।४२।। १. भूतां पा१ पासं२ पा३ ।। २. के प्रत्यये समासे खं१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy