SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सविशेषणमाख्यातं वाक्यम् ।१।१।२६॥ प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । धर्मो वो रक्षतु , लुनीहि३ पृथुकाँश्च खाद , शीलं ते स्वम् ।।२६।। अधातु-विभक्ति-वाक्यमर्थवन्नाम ।१।१।२७॥ धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात् । वृक्षः , स्व: , धवश्व । अधातुविभक्तिवाक्यमिति किम् ? अहन् , वृक्षान् , साधु: धर्मं ब्रूते ॥२७॥ शिघुट ।१।१।२८॥ जस्-शसादेश: शिघुट् स्यात् । पद्मानि , पंयांसि ॥२८॥ पुं-स्त्रियोः स्यमौ-जस् ।१।११२९॥ स्यादय: पुं-स्त्रीलिङ्गयोर्घट: स्युः । राजा , राजानम् , राजानौ , राजानः , सीमा , सीमानम् , सीमानौ , सीमानः ।।२९।। स्वरादयोऽव्ययम् ।१।१॥३०॥ स्वरादयोऽव्ययानि स्युः । स्व: , अन्तः , इत्यादि ।॥३०॥ चादयोऽसत्त्वे ।।१॥३१॥ असत्त्वे अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः । वृक्षश्च इत्यादि ।।३।। अधण्तस्वाया शसः ।।१॥३२॥ धण्वर्जास्तस्वादय: शस्पर्यन्ता ये प्रत्ययास्तदन्तं नाम अव्ययं स्यात् । देवा अर्जुनतोऽभवन् , तत: , तत्र , बहुशः । अधणिति किम् ? पथि द्वैधानि ॥३२॥ विभक्ति-थमन्ततसाद्याभाः ।।१।३३॥ विभक्त्यन्ताभा: थमवसानतसादिप्रत्ययान्ताभाश्वाऽव्ययानि स्युः । अहंयुः , अस्तिक्षीरा गौः , कुतः , कथम् ॥३३॥ वत्-तस्याम् ।१।१॥३४॥ १. पयांसि खं१,३, पा३ मध्ये नास्ति ।। २. सूत्रक्रमानुसारेण उदाहरणक्रमः ॥ ३. अन्तः प्रातः इत्यादि खं१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy