________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
भ म ॥१२॥
आद्य-द्वितीय-श-ष-सा अघोषाः ।।११३॥ वर्गाणामाद्य-द्वितीया वर्णाः श-ष-साश्च अघोषाः स्युः । क ख , च छ , ट ठ , त थ , प फ , श ष स ॥१३॥
अन्यो घोषवान् ।।१।१४॥ अघोषेभ्योऽन्यः कादिर्वर्णो घोषवान् स्यात् । ग घ ङ , ज झ ञ , ड ढ ण , द ध न , ब भ म , य र ल व , ह ॥१४॥
य-र-ल-वा अन्तस्थाः ।।११५॥ एते ' अन्तस्था: ' स्युः ॥१५||
अं- क-७प-श-ष-साः शिट् ।१।१।१६॥ अ-क-पा उच्चारणार्थाः , अनुस्वार-विसर्गों वज्र-गजकुम्भाऽऽकृती च वर्गों श-ष-साश्च शिट: स्यु: ।।१६।।
तुल्यस्थाना-ऽऽस्यप्रयत्नः स्वः ।।१।१७॥ स्थानं कण्ठादि । आस्ये प्रयत्न आस्यप्रयत्न: स्पृष्टतादिः । तुल्यौ वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्व: स्यात् ।
तत्र त्रयोऽकारा उदात्ता-ऽनुदात्त-स्वरिता: प्रत्येकं सानुनासिक-निरनुनासिकभेदात् षट् , एवं दीर्घ-प्लुतौ इति अष्टादश भेदा अवर्णस्य , ते सर्वे कण्ठस्थाना विवृतकरणा: परस्परं स्वा: । एवम् इवर्णास्तावन्तस्तालव्या विवृतकरणा: स्वा: । उवर्णा ओष्ठ्या विवृतकरणा: स्वा: । ऋवर्णा मूर्द्धन्या विवृतकरणा: स्वा: । लवर्णा दन्त्या विवृतकरणा: स्वा: । सन्ध्यक्षराणां ह्रस्वा न सन्ति , इति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततरा: स्वा: । ऐकारास्तालव्या अतिविवृततरा: स्वा: । ओकारा ओष्ठ्या विवृततरा: स्वा: । औकारा ओष्ठ्या अतिविवृततरा: स्वाः । वाः पञ्च पञ्च परस्परं स्वा: । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ।।१७||
१. “स्थानं कण्ठादि । यदाहुः -- "अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥" [पाणिनीयशिक्षा , श्लो० ८] इति बृहद्वृत्तौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org