________________
४४८
स्वोपज्ञलघुवृत्तिविभूषितं
तत्र य: सूत्रपाठे पर: स विधि: स्यात् । वनानि , अत्र शसोऽता सश्च न: पुंसि [१।४।४९] इत्यतो नपुंसकस्य शि: [१।४/५५] इत्येव स्यात् ।।११९।।
आसन्नः ।७।४।१२०॥ यथास्वं स्थाना-ऽर्थ-प्रमाणादिभिरासन्न एव विधि: स्यात् । दण्डाग्रम् , अत्र कण्ठ्ययोरतो: कण्ठ्य एव आ दीर्घः । वातण्डययुवतिः , वतण्ड्याः पुंवद्भावेऽर्थत आसन्न:-वातण्डय: ; अमुष्मै, मादुवर्णोऽनु [२।११४७] इति मात्रिकस्य मात्रिक: ।।१२०॥
सम्बन्धिनां सम्बन्धे ।७४।१२१॥ सम्बन्धिशब्दानां यत् कार्यमुक्तं तत् सम्बन्ध एव सति स्यात् । श्वशुर्यः , संज्ञायास्तु इनेव-श्वाशुरिः ॥१२१।।
समर्थः पदविधिः ।।४।१२२॥ समर्थपदाश्रयत्वात् समर्थः , पदसम्बन्धी विधि: पदविधि: , सर्व: पदविधि: समर्थो ज्ञेयः , सामर्थ्यं च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समास-नामधातुकृत्-तद्धितोपपदविभक्ति-युष्मदस्मदादेश-प्लुतरूप: । धर्मश्रितः , पुत्रीयति , कुम्भकारः , औपगव: , नमो देवेभ्यः , धर्मस्ते स्वम् , धर्मो मे स्वम् , अङ्ग ! कूज३ इदानीं ज्ञास्यसि जाल्म ! । समर्थ इति किम् ? पश्य धर्मं श्रितो मैत्रो गुरुकुलम् , पश्यति पुत्रमिच्छति सुखम् , पश्य कुम्भं करोति कटम् , गृहमुपगोरपत्यं तव , इदं नमो देवा: ! शृणुत , ओदनं पच तव मम वा भविष्यति | अङ्ग ! कूजत्ययमिदानीं ज्ञास्यति जाल्म: । पदोक्तवर्णविधिरसामर्थेऽपि स्यात्-तिष्ठतु दध्यशान त्वं शाकेन । एवं समास-नामधातु-कृत्-तद्धितेषु वाक्ये व्यपेक्षा । वृत्तावेकार्थीभाव: , शेषेषु पुनर्व्यपेक्षैव सामर्थ्यम् ॥१२२।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य चतुर्थः पाद: समाप्तः ।।७।४।।
।। सप्तमोऽध्याय: समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org