________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
४४७
सन्धि-वियन्ति , ङी-बिम्बम् , य-कण्डूति: , कि-दयू: , द्वि-दद्धयत्र , दीर्घ-शामं शामम् , [असद्विधौ]-यायष्टिः । अस्क्लुकीति किम् ? सुकू: , काष्ठतक्॥१११।।
लुप्यय्वृल्लेनत् ।७।४।११२॥ प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वं कार्यं न स्यात् , वृत् लं एनच्च मुक्त्वा । तद् , गर्गाः । लुपीत्युक्ते लुकि स्यादेव-गोमान् । अय्वृल्लेनदिति किम् ? जरीगृहीति , निजागलीति , एनत् पश्य ।।११२।।
विशेषणमन्तः ।७४|११३॥ अभेदेनोक्तोऽवयवो विशेषणं विशेष्यस्य समुदायस्यान्त: स्यात् अत: स्यमोऽम् [१४/५७] कुण्डम् , इह न स्यात्- तद् ।।११३।।
सप्तम्या आदिः ।४।११४॥ सप्तम्यन्तस्य विशेष्यस्य यद् विशेषणं तत् तस्याऽऽदि: स्यात् । इन् ङीस्वरे लुक् [१४/७९] पथः , इह मा भूत्- पथिषु ॥११४॥
प्रत्ययः प्रकृत्यादेः ।७।४।११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः , प्रत्यय: प्रकृत्यादे: समुदायस्य विशेषणं स्यात् , नोनाधिकस्य । मातृभोगीण: ॥११५।।
गौणो ड्यादिः ।७।४।११६॥ ङीमारभ्य व्यं यावत् ड्यादिः प्रत्ययः , स गौण: सन् प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । अतिकारीषगन्ध्यबन्धुः । गौण इति किम् ? मुख्योऽधिकस्यापि विशेषणं स्यात्-परमकारीषगन्धीबन्धुः ।।११६।।
कृत् सगतिकारकस्यापि ।४।११७॥ कृत्प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य , केवलस्य च विशेषणं स्यात् । यथेह समासो-भस्मनिहुतं , तथा-उदकेविशीर्णम् , अवतप्तेनकुलस्थितम् ||११७||
परः ।७४।११८॥ प्रत्यय: प्रकृते: पर एव स्यात् । अजा , वृक्षः , जुगुप्सते ॥११८॥
स्पः ।७।४।११९॥ द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपात: स्पर्द्ध: ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org