________________
श्याच्छवश्च परस्यान्तुरीङयोः परयोरुपान्त्यनो लुग न स्यात् । दीव्यन्ती । पचन्ती।" उपरिनिर्दिष्टादर्शत्रयानुसारेण प्राचीने सिद्धहेमचन्द्रशब्दानुशासने एवंविधानि सूत्राणि आसन्
न स्तं मन्त्वर्थे [१।१।२३], डत्यन्तु संख्यावत् [१।१।३९], अभ्वादेरन्त्वस: सौ [१।४।९०], संस्-ध्वंस्-क्वंस्वनडुहो दः [२।१।६८], मावर्णोपान्तपञ्चमवर्गान् मन्तोर्मो वः [२।१।९४], क्वंसुष् मन्तौ च [२।१।१०५], अघुटयुपान्त्यनोऽकृञ्चञ्चुदित: [२।१।११५], अवर्णादश्नो वान्तुरीङयोः [२।१।११६], न श्य-शवः [२।१।११७), तृन्नुदन्ताव्यय-क्वंस्वाना-ऽन्तृश्-शन्तृ-ङि-णकच्-खलर्थस्य [२।२।९०], अनजिरादिबहुस्वर-शरादीनां मन्तौ [३।२।७८], नवाद्यानि शन्तृ-क्वंसू च परस्मैपदम् [३।३।१९], घसेकस्वरात: क्वंसोः [४।४।८२], जृषोऽन्तः [५/१।१७३], क्त-क्तवन्तू [५/१।१७४], तत्र क्वंसु-कानौ तद्वत् [५/२।२], शन्त्रानशावेष्यति तु सस्यौ [५/२।२०], वा वेत्तेः क्वंसुः [५/२।२२], धारीङोऽकृच्छ्रेऽन्तृश् [५/२।२५], वाऽन्तोरिक: [६/४/१३२], इदंकिमोऽन्तुरिय् किय् चास्य [७।१।१४८], अन्तोरिथट् [७।१।१६१], तदस्यास्त्यस्मिन्निति मन्तुः [७/२।१], भवन्त्वायुष्मद्दीघार्यर्देवानांप्रियैकार्थात् [७।२।९१], प्रायोऽन्तोर्द्वयसट्-मात्रट् [७।२।१५५], गुणाङ्गाद्वेष्ठेयंसू [७।३।९], कुमारीक्रीडनेयंसोः [७।३।१६], वयसि दन्तस्य दन्तः [७।३।१५१], ईयंसो: [७।३।१७७], विन्मन्तोर्णीष्ठेयंसौ लुप् [७।४।३२]
वृत्तावपि च एतदनुसारेणैव सर्वत्र पाठ आसीत् । प्राचीनतमादर्शावलोकनादेतत् स्पष्टमेवावसीयते।
अधुना तु 'शतृ-अतृ-अतृश्-क्वसु-ईयसु... ' इत्यादिपाठयुक्तो यादृशः सूत्रपाठो दृश्यते तादृशः कदा संजात: ? आचार्यश्रीहेमचन्द्रसूरिभिः स्वयमेव उत्तरकाले परिवर्तितः, अन्येन वा केनचित् परिवर्तित: ? इति वयं न जानीम: । किन्तु प्राय: अष्टाभ्य वर्षशतेभ्य पाठोऽयं प्रचलति इति अवश्यं ज्ञायते । संवत् १२९२ मध्ये तालपत्रोपरि लिखिते २३९ ग्रन्थाङ्कयुते खंभातनगरस्थे सिद्धहेमचन्द्रशब्दानुशासने ‘शतृ-अतृ' इत्यादिपाठयुक्तान्येव सूत्राणि दृश्यन्ते। गूर्जरभाषायां लिखितायां प्रस्तावनायां [पृ०६-११] विस्तरेण एतच्चर्चितमस्माभिः । विशेषतो जिज्ञासुभिस्तत्र विलोकनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org