________________
अत्रेदमादावश्यमवधेयम् —
आचार्यभगवतां श्री हेमचन्द्रसूरीणां स्वर्गवासो वैक्रमे १२२९ वर्षे I तेषां विद्यमानतायां तालपत्रोपरि लिखितास्त्रयः श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य आदर्शाः समुपलभ्यन्ते । तत्र विक्रमसंवत् १२०६ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे २९७ ग्रन्थाङ्कयुते J1 आदर्शे ५ | १|१ त ५ |४| ९० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति । विक्रमसंवत् १२२१ मध्ये तालपत्रोपरि लिखिते पाटणनगरस्थे संघवीपाडाभंडारसत्के १३७ (२) ग्रन्थाङ्कयुते P3 आदर्शे ३ | ३ | १ त: ५/४/९० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति । विक्रमसंवत् १२१८ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे ३०१ ग्रन्थाङ्कयुते आदर्शे सर्वेऽपि सप्त अध्यायाः स्वोपज्ञरहस्यवृत्तिसहिताः सन्ति । श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तसु अध्यायेषु ३५६६ सूत्राणि सन्ति, तेषु प्रायः १६७० सूत्राणि एव अस्यां रहस्यवृत्तौ व्याख्यातानि ।
समज
एतदवलोकनेन स्पष्टमेव प्रतिभाति यद् ऋदुदित: [ १ |४ |९० ] इति सूत्रं प्रारम्भे आ. भ. श्री हेमचन्द्रसूरिभिर्नैव विरचितम् । किन्तु सर्वेऽपि ऋदितः उदितश्च प्रत्ययाः 'शन्तृ, अन्तृ, अन्तृशू, क्वंसु, ईयंसु ' इत्येवम् उपान्त्य' न' सहिता एव तैः स्वीकृताः । डित्यन्त्यस्वरादेः [ २|१|११४] इति सूत्रानन्तरं च ईदृशानि त्रीणि सूत्राणि रहस्यवृत्तौ दृश्यन्ते—
66
'अघुट्युपान्त्यनोऽकुंचुचु ( क्रुञ्चञ्चु ) दित: [ २|१|११५] क्रुञ्च्-[अञ्च्]-उदिद्वर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । श्रेयः । अकुंचुंचु (अक्रुञ्चञ्चु ) दित इति किम् ? क्रुञ्चा | साध्वञ्चा | सुकन्भ्याम् ।
अवर्णादश्रो वाऽन्तुरीङयो: [२।१।११६]
श्नावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई - ङयोः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती | [अ]श्न इति किम् ? लुनती |
न श्यशवः [२।१।११७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org