________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
३५३
पदिकः ।६।४।१३॥ पादाचरतीकट् स्यात् , पचाऽस्य । पदिकः ।।१३।।
श्वगणाद् वा ।६।४।१४॥ अस्माचरतीकट् वा स्यात् । श्वगणिकी , श्वागणिकः ॥१४||
वेतनादेर्जीवति ।६।४।१५॥ अस्माट्टान्ताज्जीवतीकण् स्यात् । वैतनिक: , वाहिकः ॥१५।।
_व्यस्ताच्च क्रय-विक्रयादिकः ।६।४।१६॥ अस्मात् समस्ताद् व्यस्ताच तेन जीवति इक: स्यात् । क्रयविक्रयिकः , क्रयिक: , विक्रयिकः ।।१६।।
वस्नात् ।६।४।१७॥ वस्नात् तेन जीवतीक: स्यात् । वस्निकः ।।१७।।
आयुधादीयश्च ।६।४।१८॥ अस्मात् तेन जीवति ईय इकश्च स्यात् । आयुधीयः , आयुधिकः ।।१८||
वातादीनञ् ।६।४।१९॥ वातात् तेन जीवति ईनञ् स्यात् । व्रातीनाभार्यः ।।१९।।
निर्वृत्तेऽक्षयूतादेः ॥६॥४॥२०॥ अस्माट्टान्तानिवृत्ते इकण् स्यात् । आक्षयूतिकम् , जाचाप्रहतिकं वैरम् ।।२०।।
भावादिमः ।६।४।२१॥ भावार्थात् तेन निर्वृत्ते इम: स्यात् । पाकिमम् ।।२१।।
याचिता-ऽपमित्यात् कण्।६।४॥२२॥ आभ्यां तेन निवृत्ते कण् स्यात् । याचितकम् , आपमित्यकम् ।।२२।।
हरत्युत्सङ्गादेः ।६।४।२३॥ अस्माट्टान्ताद् हरति इकण् स्यात् । औत्सङ्गिक: , औत्तुपिक: ||२३||
भस्त्रादेरिकट् ।६।४।२४॥ अस्माट्टान्ताद् हरति इकट् स्यात् । भस्त्रिकी , भरटिकी ॥२४||
विवध-वीवधान वा ।६।४।२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org