________________
३५२
स्वोपज्ञलघुवृत्तिविभूषितं [ चतुर्थ पादः ]
इकण् ।६।४।१॥ आ पादान्ताद् यदनुक्तं स्यात् तत्राऽयमधिकृतो ज्ञेयः ।।१।।
तेन जित-जयद्-दीव्यत्-खनत्सु ।६।४।२॥ तेनेति टान्तादेष्वर्थेष्विकण् स्यात् । आक्षिकम् , आक्षिकः , आभ्रिक: ।।२।।
संस्कृते ।६।४॥३॥ टान्तात् संस्कृते इकण् स्यात् । दाधिकम् , वैधिकः ॥३॥
कुलत्थ-कोपान्त्यादण् ।६।४।४॥ कुलत्थात् कोपान्त्याच तेन संस्कृतेऽण् स्यात् । कौलत्थम् , तैत्तिडीकम् ।।४।।
संसृष्टे ।६।४।५॥ टान्तात् संसृष्टेऽर्थे इकण् स्यात् । दाधिकम् ।।५।।
लवणादः ।६।४।६॥ अस्मात् तेन संसृष्टेऽर्थे अ: स्यात् । लवण: सूपः ।।६।।
चूर्ण-मुद्गाभ्यामिनणौ ।६।४।७॥ आभ्यां तेन संसृष्टे यथासंख्यमिनणौ स्याताम् । चूर्णिनोऽपूपाः , मौद्गी यवागू: ।।७।।
व्यञ्जनेभ्य उपसिक्ते।६।४।८॥ व्यञ्जनं सूपादि , तदर्थाट्टान्तादुपसिक्ते इकण् स्यात् । तैलिकं शाकम् ।।८।।
तरति ।६।४॥९॥ टान्तात् तरत्यर्थे इकण् स्यात् । औडुपिकः ।।९।।
नौ-द्विस्वरादिकः ।६।४।१०॥ नावो द्विस्वराच्च टान्तात् तरत्यर्थे इक: स्यात् । नाविका , बाहुका ॥१०॥
चरति ।६।४।११॥ टान्ताचरतीकण् स्यात् । हास्तिक: , दाधिकः ।।११।।
पादेरिकट ।६।४।१२॥ अस्माट्टान्ताच्चरति इकट् स्यात् । पर्पिकी , अश्विकी ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org