SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३२४ स्वोपज्ञलघुवृत्तिविभूषितं मौहूर्त्तः , छान्दसः ॥११७|| न्यायादेरिकण् ।६।२।११८॥ एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् । नैयायिकः , नैयासिकः ।।११८॥ पद-कल्प-लक्षणान्त-क्रत्वाख्याना-ऽऽख्यायिकात् ।६।२।११९॥ पद-कल्प-लक्षणान्तेभ्यः क्रत्वाद्यर्थेभ्यश्च वेत्त्यधीते वेत्यर्थे इकण् स्यात् । पौर्वपदिक: , मातृकल्पिक: , गौलक्षणिकः , आग्निष्टोमिक: , यावक्रीतिक: , वासवदत्तिक: ।।११९।। - अकल्पात् सूत्रात् ।६।२।१२०॥ कल्पवर्जात् परो य: सूत्रस्तदन्तान वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वार्त्तिसूत्रिक: । अकल्पादिति किम् ? सौत्र: , काल्पसौत्रः ।।१२०।। अधर्म-क्षत्र-त्रि-संसर्गा-ऽङ्गाद् विद्यायाः ।६।२।१२१॥ - धर्मादिवर्जात् परो यो विद्याशब्दस्तदन्ताद् वेत्त्यधीते वेत्यर्थे इकण् स्यात् । वायसविद्यिकः । अधर्मादेरिति किम् ? वैद्यः , धार्मविद्यः , क्षात्रविद्यः , त्रैविद्य: , सांसर्गविद्यः , आङ्गविद्यः ॥१२१।। याज्ञिकौक्त्थिक-लौकायितिकम् ।६।२।१२२॥ एते वेत्त्यधीते वेत्यर्थे इकणन्ता निपात्यन्ते । याज्ञिक: , औक्त्थिकः , लौकायितिक: ।।१२२।। अनुब्राह्मणादिन् ।६।२।१२३॥ अस्माद् वेत्त्यधीते वेत्यर्थे इन् स्यात् । अनुब्राह्मणी ।।१२३॥ शत-षष्टेः पथ इकट् ।६।२।१२४॥ आभ्यां परो यः पन्थास्तदन्ताद् वेत्त्यधीते वेत्यर्थे इकट् स्यात् । शतपथिकी , षष्टिपथिकः ।।१२४|| पदोत्तरपदेभ्य इकः ।६।२।१२५॥ पदशब्द उत्तरपदं यस्य तस्मात् पदात् , पदोत्तरपदाच्च वेत्त्यधीते वेत्यर्थे इक: स्यात् । पूर्वपदिकः , पदिकः , पदोत्तरपदिकः ।।१२५।। १. छान्दसः P3सं० मध्ये एव वर्तते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgi
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy