SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्य: साऽस्य देवतेति विषये य: स्यात् । वायव्यम् , ऋतव्यम् , पित्र्यम् , उषस्यम् ।।१०९।। महाराज-प्रोष्ठपदादिकण् ।६।२।११०॥ आभ्यां साऽस्य देवतेति विषये इकण् स्यात् । माहाराजिकः , प्रौष्ठपदिक: ॥११०॥ कालाद् भववत् ।६।२।१११॥ कालविशेषार्थेभ्यो यथा भवे प्रत्यया वक्ष्यन्ते तथा साऽस्य देवतेति विषयेऽपि स्युः । यथा मासे भवं मासिकम् , प्रावृषि प्रावृषेण्यम् , तथा मासप्रावृदेवताकमपि ॥११॥ आदेः छन्दसः प्रगाथे ।६।२।११२॥ प्रथमान्तादादेः छन्दसोऽस्येति षष्ठयर्थे प्रगाथेऽर्थे यथाविहितं प्रत्यय: स्यात् । पातः प्रगाथ: । आदेरिति किम् ? अनुष्टुब् मध्यमस्य प्रगाथस्य ॥११२।। योद्धृ-प्रयोजनाद् युद्धे ।६।२।११३॥ प्रथमान्ताद् योद्धर्थात् प्रयोजनार्थाच्च षष्ठयर्थे युद्धे यथाविहितं प्रत्यय: स्यात् । वैद्याधरं युद्धम् , सौभद्रं युद्धम् ।।११३।। भावघञोऽस्यां णः ।६।२।११४॥ भावे घनन्तात् प्रथमान्तादस्यामित्यर्थे ण: स्यात् । प्रापाता तिथि: 1 भावेति किम् ? प्राकारोऽस्याम् ॥११४॥ श्यैनम्पाता-तैलम्पाता।६।२।११५॥ श्येन-तिलयोर्भावे घञन्ते पाते परे मोऽन्तः स्यात् । श्यैनम्पाता , तैलम्पाता तिथि: क्रियाभूमिः क्रीडा वा ॥११५।। प्रहरणात् क्रीडायां णः ।६।२।११६॥ प्रहरणार्थात् प्रथमान्तादस्यामिति क्रीडायां णः स्यात् । दाण्डा क्रीडा । क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम् ।।११६।। तद् वेत्त्यधीते ।६।२।११७॥ तदिति द्वितीयान्ताद् वेत्ति अधीते वा इत्यर्थयोर्यथाविहितं प्रत्यय: स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy