SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्य उपसर्गेभ्य: पराद् यमेर्भावा-ऽकोरल् वा स्यात् । संयम: , संयाम: ; नियमः , नियामः ; वियमः , वियामः ; उपयमः , उपयामः ॥२५।। नेर्नद-गद-पठ-स्वन-कणः ।५।३॥२६॥ नेरुपसर्गात् परेभ्य एभ्यो भावा-ऽकोरल् वा स्यात् । निनदः , निनाद: ; निगदः , निगादः ; निपठः , निपाठ: ; निस्वनः , निस्वानः ; निक्कण: , निक्काण: ।२६।। वैणे कणः ।५।३॥२७॥ वीणायां भवो वैण: , तदर्थादुपसर्गपूर्वात् कणेर्भावा- कोरल् वा स्यात् । प्रकण: , प्रकाणो वीणायाः । वैण इति किम् ? प्रक्वाण: शृङ्खलस्य ।।२७|| युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः ।५।३।२८॥ इवर्णोवर्णान्तेभ्यो ब्रादेरृदन्तेभ्यो ग्रहेश्च भावा-ऽकोरल् स्यात् । चयः , क्रयः , रख: , लव: , वरः , आदर: , वशः , रण: , गम: , कर: , ग्रह: ||२८|| वर्षादयः क्लीवे ।५।३।२९॥ एतेऽलन्ता: क्लीबे यथादर्शनं भावा-ऽकोर्निपात्यन्ते । वर्षम् , भयम् ।।२९।। समुदोऽजः पशौ ।५।३॥३०॥ आभ्यां परादज: पशुविषयार्थवृत्तेर्भावा-ऽकोरल् स्यात् । समज: पशूनाम् , उदजः पशूनाम् । पशाविति किम् ? समाजो नृणाम् ॥३०॥ सृ-ग्लहः प्रजना-ऽक्षे ।५।३॥३१॥ आभ्यां यथासङ्ख्यं प्रजना-ऽक्षविषयार्थवृत्तिभ्यां भावा-ऽकोरल् स्यात् । गवामुपसरः , अक्षाणां ग्लहः । प्रजनाक्ष इति किम् ? उपसारो भृत्यै राज्ञाम् ।।३१।। पणेर्माने ।५।३।३२॥ पणेर्मानार्थाद् भावा-ऽकोरल् स्यात् । मूलकपण: । मान इति किम् ? पाण: ॥३२॥ संमद-प्रमदौ हर्षे ।५।३॥३३॥ एतौ भावा-ऽकोर्हर्षेऽर्थेऽलन्तौ स्याताम् । संमदः , प्रमदो वा स्त्रीणाम् । हर्ष इति किम् ? संमादः , प्रमाद: ।।३३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy