________________
२५८
स्वोपज्ञलघुवृत्तिविभूषितं
॥४१॥
भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल-शुचश्वाऽनः ।५।२।४२॥ भूषार्थेभ्य: क्रोधार्थेभ्यो ज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽन: स्यात् । भूषण: , क्रोधन: , जवनः , सरण: , गर्द्धन: , ज्वलनः , शोचनः , अभिलषण: , पतन: , अर्थस्य पदनः ॥४२॥
चाल-शब्दार्थादकर्मकात् ।५।२।४३॥ चालार्थात् शब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकाद् अन: स्यात् । चलन: , रवण: । अकर्मकादिति किम् ? पठिता विद्याम् ।।४३।।
इ-डितो व्यञ्जनाऽऽद्यन्तात् ।५।२।४४॥ व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितो डितश्च धातो: शीलादिसदर्थाद् अन: स्यात् । स्पर्द्धन: , वर्त्तनः । व्यञ्जनाद्यन्तादिति किम् ? एधिता , शयिता । अकर्मकादित्येव-वसिता वस्त्रम् ॥४४॥
न णि-य-सूद-दीप-दीक्षः ।५।२॥४५॥ णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्योऽनो न स्यात् । भावयिता , क्ष्मायिता , सूदिता , दीपिता , दीक्षिता ॥४५॥
द्रम-क्रमो यङः ।५।२।४६॥ शीलादिसदाभ्यां यङन्ताभ्यामाभ्याम् अन: स्यात् । दन्द्रमण: , चङ्क्रमण: ॥४६॥
यजि-जपि-दंशि-वदादूकः ।५।२॥४७॥ एभ्यो यङन्तेभ्य: शीलादिसदर्थेभ्य ऊक: स्यात् । यायजूक: , जञ्जपूक: , दन्दशूकः , वावदूकः ॥४७||
जांगुः ।५।२।४८॥ शीलादिसदर्थाद् जागुरूक: स्यात् । जागरूकः ।।४८।।
शमष्टकाद् घिनण् ।५।२।४९॥ शीलादिसदर्थेभ्य: शमादिभ्योऽष्टभ्यो घिनण् स्यात् । शमी , दमी , तमी , श्रमी , भ्रमी , क्षमी , प्रमादी , क्लमी ॥४९।। युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुह-दुहाऽभ्याहनः ।५।२।५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org